अपम त्रि० अपकृष्टं मीयते अप + मा--बा० क । अपकृष्ट- तया ज्ञाते “भगोऽनाशोश्चिदविताऽपमस्य चित्” । ऋ० १०, ३९, ३ । “अपमस्य जात्यातिनिकृष्टस्य” भा० । अप- कृष्यभूगोलादुपरि मीयते । भूगीलानाच्छादितान्तरिक्षमागे ज्योतिषपरिभाषितायां सूर्य्यादिगत्यर्थतिर्य्यग्रेखायाम् क्रान्तौ यथा । “नाडिकामण्डलात् तिर्य्यगत्रापमः, क्रान्तिवृत्ता- वधिः क्रान्तिवृत्ताच्छरः । विक्षेपवृत्तावधिस्तिर्य्यगेवं स्फुटो नाडिकावृत्तखेटान्तरालेऽपम” इति सि० शि० । “क्रान्तिवृत्ते यत् स्फुटग्रहस्थानं तस्य नाडीवृत्तात् तिर्य्यगन्तरम् अपमः क्रान्तिः । अथ विमण्डले यत् ग्रहस्थानं तस्य क्रान्ति- [] वृत्तात् यत् तिर्य्यगन्तरं स विक्षेपः अथ विमण्डलस्य प्राक् च नाडीवृत्तात् यत् तिर्य्यगन्तरम् सः अपमः स्फुटा क्रान्तिः ग्रहस्य उत्तरतो याम्यदिशं याम्यान्तात् तदनु सौम्यदिग्- भागम् । प्रमि० “परिसरतां गगनसदां चलनं किञ्चि- द्भवेदपमः” इति । सि० शि० ।
📄 मूल मुद्रित पृष्ठ (0229-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।