🕉️ 22 November 2026, Sunday · 06:36:56 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

अश्वत्थ
aśvattha
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
अश्वत्थ संज्ञा पुं॰ [सं॰]
१. पीपल ।
२. पीपल का गोदा [को॰] ।
३. सूर्य का एक नाम [को॰] ।
३. पीपल में फल आने का काल [को॰] ।
५. अश्विनी नक्षत्र [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
अश्व—त्थ See ss.vv. below.
अश्वत्थ m. (त्थ = स्थ ‘under which horses stand’) the holy fig tree, Ficus Religiosa, AV.; ŚBr. &c.
a vessel made of its wood, RV. i, 135, 8; x, 97, 5
the upper (or male) अरणि made of its wood, AV. vi, 11, 1; ŚBr. xi; KātyŚr.
the plant Thespesia Populneoides, L.
N. of a Nakṣatra (also called Śroṇā), Pāṇ. iv, 2, 5 and 22
a N. of the sun, MBh. iii, 151
N. of a people, VarBṛS.
अश्वत्थ mfn. ‘relating to the Nakṣatra Aśvattha’, (with मुहूर्त) the moment in which the moon enters that Nakṣatra, Pāṇ. iv, 2, 5, Sch.
📄 मूल मुद्रित पृष्ठ (115,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
अश्वत्थः [न श्व श्चिरं शाल्मलीवृक्षादिवत् [] तिष्ठति स्था-क पृ˚ नि˚ Tv.] 1 The holy fig-tree; ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः Kaṭh.; the tree of this world; Bg. 15. 1. --2 A kind of the Aśvattha tree (नंटीवृक्ष). --3 N. of another tree गर्दभांड. --4 The constellation Aśvinī. --5 The time indicated or presided over by Aśvinī; अश्वत्थो मुहूर्तः Sk. on P. IV. 2. 5. --6 A vessel made of the अश्वत्थ tree (Ved.). --7 The fruit of the sacred fig-tree; अश्वत्थस्य फलमश्वत्थः Sk. --8 The time at which it bears fruit; अश्वत्थफलयुक्तः कालोप्यश्वत्थः P. IV. 3. 48 Sk. --9 An epithet of the sun. --10 N. of a people; Bṛ. S. 14. 3. --त्था The day of full moon in the month of Āśvina, (in which month the fruits of the sacred fig-tree generally become ripe). --त्थी [क्षुद्रोऽश्वत्थः अल्पार्थे ङीप्] A small fig-tree. --Comp. --कुणः [ अश्वत्थस्य पाकः पील्वा˚ कुणच् P. V. 2. 24] the fruit-season of the holy fig-tree. --भेदः N. of a tree (स्थालीवृक्ष).
📄 मूल मुद्रित पृष्ठ (0205-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
अश्वत्थ पु० न श्वश्चिरं शाल्मलिवृक्षादिवत् तिष्ठति स्था--क पृ० नि० । १ स्वनामख्याते वृक्षे, “बोधिद्रुः पिप्पलोऽश्वत्थश्चल पत्रोगजाशनः । पिप्पलो दुर्जरःशीतः पित्तश्लेष्मव्रणास्र- जित् । गुरुस्तुवरकीरूक्षोबल्योयोनिविशोधनः” भा० प्र० । [] “अश्वत्थः सर्ववृक्षाणाम् गीता” तस्य विष्णुरूपित्वेन सर्व्वामङ्गलनाशकत्वम् अश्वत्थोत्पत्तिः “पार्वतीशिवयो- र्देवैः सुरतं कुर्वतोः किल । अग्निं ब्राह्मणवेशेन प्रेष्य विघ्नं कृतं पुरा । शशाप पार्वती क्रुद्धा सर्वा- नेव दिवौकसः” इस्युपक्रम्य “तस्मान्मम सुखभ्रंशात् यूयं वृक्षत्वमाप्स्यथ” पार्वतीशापमुक्त्वा “तस्माद्वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः । तस्मादिमौ विष्णुमहेश्वरावुभौ बभूवतुर्बोधिवटौ मुनीश्वराः!” । बोधिस्त्वयं चार्किदिनं विनैव त्वस्पृश्यतामापदलक्ष्यीयोगात्” पद्मपु० क्रिया० १६० अध्या० उक्ता । “तस्य शनिवारमात्रे स्पृश्यता- कारणमप्युक्तं तत्रैव १६१ अध्या० । लक्ष्म्या ज्येष्ठ- भगिन्या अलक्ष्म्या सह उद्दालकस्य विवाहमुक्त्वा पत्या “यावदागमनं मम तावत् अश्वत्थमूले त्वं निषीद” इत्युक्तया अलक्ष्म्या तत्रैव स्थितया बहुतिथे काले गतेऽपि पत्यु- रागमनमनालोक्य क्रन्दितं, तच्श्रुत्वा च लक्ष्म्या कनिष्ठ- भगिन्या नोदितो विष्णुस्तत्रागत्य तामुवाच यथा । “लक्ष्म्या सह ततो विष्णुस्तत्रागात् कृपयान्वितः । आश्वासयन्नलक्ष्मीं तामिदं वाक्यमथाब्रवीत् । अश्वत्थ- वृक्षमासाद्य सदाऽलक्ष्मीः स्थिरा भव । ममांशसम्भवोह्येष आवासस्ते मया कृतः । मन्दवारे सदा ह्येनं लक्षमीरत्रा गमिष्यति । अस्पृश्योऽसौ भवेत्तस्मान्मन्दवारं विना किल” एवञ्च अलक्ष्म्याः सर्वदावासादन्यदिने तस्यास्पृश्यत्वं मन्दवारे लक्ष्मीसमागमाच्च स्पृश्यत्वमिति मर्य्यादा कृता । “अश्वथरूपो भगवान् विष्णुरेव न संशयः । रुद्ररूपो वटस्तद्वत् पलाशो ब्रह्मरूपधृक् । दर्शनस्पर्शनादेव ते वै पापहराः स्मृताः” तत्रैवोक्तम् अश्वत्थस्पर्शस्तु शनिवारे एव प्रागुक्तवचनात् । तस्य वैशाखे सेचनफलं पद्मपु० क्रिया० ११ अव्या० । यथा “वैशाखे सेचयेन्नित्यं विष्णु- मश्वत्थरूपिणम् । चतुर्वर्गफलावाप्तिहेतवे वैष्णवोजनः । गण्डूषमात्रतोयेन कुर्य्याद्योऽश्वत्थसेचनम् । सोऽपि याति परं स्थानं विमुक्तः पापकोटिभिः” तन्मूलबन्धफलम् तत्रैव “अश्वत्थमूलं विप्रर्षे! यो बध्नाति शिलादिभिः । अश्वत्थरूपी भगवान् किं तस्मै न हि यच्छति” । तत् प्रणामफलं तत्रैव । “अश्वत्थद्रुममालोक्य प्रणामं कुरुते तु यः । आयुर्वृद्धिर्भवेत्तस्य वर्द्धन्ते सर्वसम्पपदः” । अत- एव दुःस्वप्नदर्शनादौ “अश्वत्थरूपी भगवान् दुःखप्नं शमया- शु मे” इति मन्त्रेण प्रणामोविहितः । “तन्मूले धर्म्मकर्मा चरणप्रशंसा तत्रैव । “यदाश्वत्थतले विप्र! धर्मकर्म विधी- [] यते । न्यूनातिरिक्तता न स्यात्तस्मिन् कर्मणि जैमिने! । तत्र तीर्थानि सर्व्वाणि तिस्रोतादीनि सन्ति वै!” । तत्- पूजनफलं तत्रैव । “अश्वत्थपूजकोयस्तु सएव हरिपूजकः । अश्वत्थरूपी भगवान् स्वयमेव यतो हरिः” ॥ तस्य तच्छा- खायाश्च छेदने निषेधः तत्रैव । “तरुज्ञानात् द्विजश्रेष्ठ! योऽश्वत्थं हन्ति मुढधीः । संसारे नास्ति तत् कर्म यत् कृत्वा स च शुध्यति । अश्वत्थोवृक्षराजोऽयं हरिमूर्त्तिः प्रकी- र्त्तितः । तस्मादश्वत्थहन्तॄणां त्राता कोऽपि न विद्यते । अश्वत्थशाखामेकां च स्वल्पामपि छिनत्ति यः । स कोटि ब्रह्महत्यानां फलं प्राप्नोति मानवः” इति च । अन्यान्यपि तच्छेदने पापानि तत्रैवोक्तानि दृश्यानि । तच्छाखा- च्छेदनमयज्ञार्थमेव निषिद्धं यज्ञार्थच्छेदने तु न दोषः पशुहिंशावत्तस्यापि विहितत्वात् “अर्कः पलाशखदिरः अप
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
अश्वत्थः, पुं, (अश्वत्थं जलमस्यास्ति । मूले सिक्त- त्वात् । अर्श-आद्यच् । अशृत्थवत् कामकर्म्मवाते- रितनित्यप्रचलितस्वभावत्वात् आशुविनाशित्वेन श्वोऽपि स्थास्यतीति विश्वासानर्हत्वाच्च मायामयः संसारवृक्षः । शाल्मलिवटाद्यपेक्षया न श्वश्चिरं तिष्ठति अश्वैव तिष्ठति वा । स्था गतिनिवृत्तौ । पृषोदरादित्वात् पूर्व्वोत्तरपदान्ताद्योः सकारयो- स्तकारौ सुपिस्थ इति कः ।) स्वनामख्यातवृक्ष- विशेषः । पिपर इति पश्चिमदेशीयभाषा । तत्- पर्य्यायः । बोधिद्रुमः २ चलदलः ३ पिप्पलः ४ कुञ्जराशनः ५ । इत्यमरः ॥ अच्युतावासः ६ चल- पत्रः ७ पवित्रकः ८ शुभदः ९ बोधिवृक्षः १० याज्ञिकः ११ गजभक्षकः १२ श्रीमान् १३ क्षीर- द्रुमः १४ विप्रः १५ मङ्गल्यः १६ श्यामलः १७ गुह्य- पुष्पः १८ सेव्यः १९ सत्यः २० शुचिद्रुमः २१ धनु- वृक्षः २२ । अस्य गुणाः । सुमधुरत्वं । कषायत्वं । शीतलत्वं । कफपित्तविनाशित्वं रक्तदाहशमन- कारित्वञ्च ॥ तत्पक्वफलस्य गुणाः । सद्यो योनि- दोषहारित्वं । शीतलत्वं । अतिहृद्यत्वं । पित्तर- क्तविषार्त्तिदाहच्छर्द्दिशोषारुचिदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ (“अश्वत्थोडुम्बरप्लक्षन्यग्रोधानां फलानि च । कषायमधुराम्लानि वातलानि गुरूणि च” ॥ इति चरकः ॥ अश्वत्थदेवायतनश्मशान- बल्मीकसन्ध्यासु चतुष्पथेषु । याम्ये सपित्रे परिवर्ज्जनीया ऋक्षे नरा मर्म्मसु ये च दष्टाः” ॥ इति सुश्रुतः ॥) अथाश्वत्थवन्दनकालमन्त्राः । “अश्वत्थं वन्दयेन्नित्यं पूर्व्वाह्ले प्रहरद्वये । अत ऊर्द्ध्वं न वन्देत अश्वत्थन्तु कदाचन ॥ (ओँ) चक्षुस्पन्दं भुजस्पन्दं तथा दुःस्वप्नदर्शनं । शत्रूणाञ्च समुत्थानमश्वत्थ शमयाशु मे ॥ अश्वत्थरूपी भगवान् प्रीयतां मे जनार्दनः । त्वां दृष्ट्वा नश्यते पापं दृष्ट्वा लक्ष्मीः प्रवर्त्तते ॥ प्रदक्षिणे भवेदायुः सदाश्वत्थ नमोऽस्तु ते” ॥ इति स्मृत्यर्थसारे हलायुधधृतवचनं ॥ गर्द्दभाण्ड- वृक्षः । इति विश्वः ॥ “बाधिद्रुः पिप्पलोऽश्वत्थश्चलपत्रो गजाशनः । पिप्पलो दुर्ज्जरः शीतः पित्तश्लेष्मव्रणास्रजित् ॥ गुरुस्तुवरको रूक्षो वर्ण्यो योनिविशोधनः” ॥ * ॥ अथ पिप्पलभेदः । गजहण्डु इति हिन्दिभाषा । “पारिशोन्यः फलीशश्च कपिचूतः कमण्डलुः । गर्द्दभाण्डः कन्दरालकपीतनसुपार्श्वकाः ॥ फलीशो दुर्ज्जरः स्निग्धः क्रिमिशुक्रकफप्रदः । [] फलेऽम्लमधुरो मूले कषायः स्वादुमज्जकः” ॥ * ॥ अथ वेलियापिप्पलः । “नन्दीवृक्षोऽश्वत्थभेदः प्ररोही गजपादपः । स्थालीवृक्षः क्षयतरुः क्षीरी च स्याद्वनस्पतिः ॥ नन्दीवृक्षो लघुः स्वादुस्तिक्तस्तुवर उष्णकः । कटुपाकरसो ग्राही विषपित्तकफास्रनुत्” ॥ इति भावक्रकाशः ॥ * ॥ तस्य विष्णुस्वरूपत्वं यथा, -- ऋषय ऊचुः । “कथं त्वयाश्वत्थवटौ गोब्राह्मणसमौ कृतौ । सर्व्वेभ्योऽपि तरुभ्यस्तौ कथं पूज्यतमौ कृतौ” ॥ सूत उवाच ॥ “अश्वत्थरूपो भगवान् विष्णुरेव न संशयः । रुद्ररूपो वटस्तद्वत् पलाशो ब्रह्मरूपधृक् ॥ दर्शनस्पर्शसेवासु ते वै पापहराः स्मृताः । दुःखापद्व्याधिदुष्टानां विनाशकारिणो ध्रुवं” ॥ ऋषय ऊचुः । “कथं वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः । एतत् कथय सर्व्वज्ञ संशयोऽत्र महान् हि नः” ॥ सूत उवाच । “पार्ब्बतीशिवयोर्दवैः सुरतं कुर्व्वतोः किल । अग्निं ब्राह्मणवेशेन प्रेष्य विघ्नः कृतः पुरा ॥ ततस्तु पार्ब्बती क्रुद्धा शशाप त्रिदिवौकसः । रेतःसेकसुखभ्रंशकम्पमाना तदा रुषा” ॥ पार्ब्बत्युवाच । “कृमिकीटादयोऽप्येते जानन्ति सुरतेः सुखं । तस्मान्मम सुखभ्रंशात् यूयं वृक्षत्वमाप्स्यथ” ॥ सूत उवाच । “एवं सा षार्ब्बती देवी अशपत् क्रुद्धमानसा । तस्माद्वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः ॥ तस्मादिमौ विष्णुमहेश्वरावुभौ बभूवतुर्बोधिवट
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "अश्वत्थ" आता है (18)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें