अष्टमी, स्त्री, (अष्टानां पूरणी । अष्टम + ङीप् ।) क्षीरकाकोली । इति शब्दचन्द्रिका ॥ तिथि- विशेषः । सा चन्द्रस्याष्टमकलाक्रियारूपा । तदु- पलक्षितकालरूपा च । सा च शुक्ला नवमी- युता ग्राह्या युग्मात् । कृष्णा च सप्तमीयुता । यथा निगमः । “कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्द्दशी । पूर्व्वविद्धैव कर्त्तव्या परविद्धा न कुत्रचित् ॥ उपवासादिकार्य्येषु एष धर्म्मः सनातनः” ॥ * ॥ भविष्यपुराणे । “चतुर्द्दश्यां तथाष्टम्यां पक्षयोः शुक्लकृष्णयोः । योऽब्दमेकं न भुञ्जीत शिवार्च्चनपरो नरः ॥ यत् पुण्यमक्षयं प्रोक्तं सततं सत्रयाजिनां । तत्पुण्यं सकलं तस्य शिवलोकञ्च गच्छति” ॥ ततश्च सततसत्रयाज्यक्षयपुण्यसमपुण्यप्राप्तिः शिव- लोकगतिश्च फलं । फाल्गुनशुक्लाष्टमीचतुर्द्दश्यो- रारभ्य वर्षं यावत् प्रत्यष्टमीप्रतिचतुर्द्दश्युपवास- व्रतं ॥ * ॥ कालिकापुराणे । “यैषा ललितकान्ताख्या देवी मङ्गलचण्डिका । वरदाभयहस्ता च द्विभुजा गौरदेहिका ॥ [] रक्तपद्मासनस्था च मुकुटकुण्डलमण्डिता । रक्तकौषेयवस्त्रा तु स्मितवक्त्रा शुभानना ॥ नवयौवनसम्पन्ना चार्व्वङ्गी ललितप्रभा । उमया भाषितं मन्त्रं यत् पूर्व्वं त्वेकमक्षरं ॥ मन्त्रमस्यास्तु तज्ज्ञेयं तेन देवीं प्रपूजयेत्” । एकमक्षरं शक्तिवीजरूपं । “तथाष्टम्यां नवम्याञ्च पूजा कार्य्या विवृद्धये । पटेषु प्रतिमायां वा घटे मङ्गलचण्डिकां ॥ यः पूजयेद्भौमवारे शुभैर्दूर्व्वाक्षतैः शिवां । सततं साधकः सोऽपि काममिष्टमवाप्नुयात्” ॥ * ॥ ज्योतिषे । शनैश्चरस्य वारेण वारेणाङ्गारकस्य च । “कृष्णाष्टमी चतुर्द्दश्यौ पुण्यात् पुण्यतरे स्मृते” ॥ तथा -- “सोमवारेऽप्यमावास्या आदित्याहे तु सप्तमी । चतुर्थङ्गारवारे च अष्टमी च वृहस्पतौ ॥ अत्र यत् क्रियते पापमथवा धर्म्मसञ्चयः । षष्टिजन्मसहस्राणि प्रतिजन्म तदक्षयं” ॥ इति तिथ्यादितत्त्वं ॥ * ॥ श्रीकृष्णजन्माष्टमीव्रतं अष्टकाश्राद्धं भीष्माष्टमीकृत्यञ्च तत्तच्छब्दे द्रष्टव्यं ॥ महाष्टमीकृत्यं महाष्टमीशब्दे द्रष्टव्यं ॥ तत्र जातफलं । “भूपालतः प्राप्तधनः कृशाङ्गः सुखी कृपालुर्युवतिप्रियश्च । चतुष्पदाढ्यो धनधान्ययुक्तः स्यादष्टमीजो मनुजः सुधीरः ॥” इति कोष्ठीप्रदीपः ॥
📄 मूल मुद्रित पृष्ठ (1-149-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।