🕉️ 19 November 2026, Thursday · 12:28:02 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

अस
asa
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
अस पु वि॰ [सं॰ ईदृश अथवा एष=यह]
१. इस प्रकार का । ऐसा । उ॰—अस विवेक जब देइ बिधाता । तब तजि दोष गुनहि मनु राता । —मानस १ ।७१ ।
२. तुल्य । समान । उ॰—जो सुनि सरु अस लाग तुम्हारे । काहे न बोलहु बचनु सँभारे ।—मानस २ । ३० ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
अ-स (Pāṇ. vi, 1, 132) not he, Śiś. i, 69 (cf. अ-तद्.)
📄 मूल मुद्रित पृष्ठ (117,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
अस दीप्तौ अक० ग्रहणे गतौ च सक० भ्वादि० उभ० सेट् । असति ते आसीत् आसिष्ट । “लावण्य उत्पाद्य इवास यत्नः” कुमा० ।
अस विद्यमानतायाम् अदा० अक० पर० सेट् । अस्ति स्तः सन्ति असि स्थःस्थ अम्मि स्वः स्मः । स्यात् स्युः । अस्तु स्ताम् सन्तु एधि--असानि । आसीत् । अस्य असार्व्वधातुके भ्वादेशः । तेन भूधातुवद्रूपम् । विद्यमानता च काल संबन्धधारणं तदुक्तं हरिणा “आत्मानमात्मना बिभ्रदस्ती- व्यवदिश्यते । अन्तर्भावाच्च तेनासौ कर्मणा न सकर्म्मकः” “अस्त्युत्तरस्यां दिशि देवतात्मा” कुमा० यच्चावहासार्थम सत्कृतोऽसि गीता” “प्रपन्नोऽत्मि स्वैरं रतिरसमहानन्दनिर- ताम्” श्यामास्तवः । “स्याद्वा संख्यावतोऽर्थस्य समुदायो- ऽभिधायकः” फणिभा० “स्यातामसित्रे मित्रे च सहज [] प्राकृतावपि” माघः कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशो वराः” मनुः “दिनेदिने त्वं तनुरेधि रेऽधिकम्” नैष० “आसी- दिदं तमोभूतमप्रज्ञातमलक्षणम्” मनुः । “नत्वेवाहं जातु नासमिति” गीता । सन् सन्तौ सन्तः । “सदेव सोम्येदमग्र आसीत्” छा० उ० “योऽन्यथा सन्तमात्मानमन्यथा प्रति- पद्यते” मनुः । “नासतोविद्यततेऽभावोनाभावो विद्यते सतः” गीता स्त्रियां ङीप् “सती सती योगविसृष्टदेहा” कुमा० “सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी हरिः वि + अति + व्यतिहारे परस्परमेकरूपेण स्थितौ “अन्यो व्यतिस्ते तु ममापि धर्म्मः” भट्टिः ।
अस क्षेपे दिवा० पर० सक० सेट् । अस्यति अस्येत् अस्यतु आस्यत् आस्थत् आस । असिता--अस्ता असिष्यति । अस्यत् अस्यमानः अस्तः । असितुम्--अस्तुम् । असित्वा- अस्त्वा अभ्यस्य, निरस्य “आरे अस्मद्दैव्यं हेलो अस्यतु” । ऋ० १, ११४, ४, “दस्यवे हेतिमस्यार्य्यम्” ऋ० १, १०३, ३, अति--अतिदूरक्षेपणे “बहुभिश्चैकमत्यस्यन्नेकेन च बहून् जनान्” भा० अत्यस्तः पा० । वि + अति । वैपरीत्येन स्थापने “व्यत्यस्तपाणिना कार्य्यमुपसंग्रहणं गुरोः” मनुः “व्यत्या- सश्छलयोगतः” स्मृतिः अधि--आरोपे आरोपश्च अतस्मिन् तद्बुद्धिःअन्योपरिस्थापनञ्च आद्यार्थे “अप्रत्यक्षेऽपि ह्याकाशे बालास्तलमलिनताद्यध्यस्यन्ति” “आह कोऽयमध्यासोनाम” उच्यते स्मृतिरूपः परत्रपूर्व्वदृष्टावभासः” शा० भा० । अनु- पश्चात् सह वा क्षेपणे अन्वस्तः । “मुञ्जमेखला वल्कलेनान्वस्ता भवति” शत० ब्रा० । अप--दूरीकरणे “गतिरपास्तसंस्था मतिः” मालतीमा० “किमित्यपास्याभरणानि यौवने” कुमा० । अभि--अभ्यावृत्तौ, “अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः” कुमा० “अभ्यासेन तु कोन्तेय! वैराग्येण च गृह्यते” गीता । “शैशवेऽभ्यस्तविद्यानाम्” रघुः । अव--अवक्षेपे “तामवास्यतो गच्छति च सृजम्” शत० ब्रा० समन्तात्क्षेपे “तामवास्यत्यागच्छति मुदम्” शत० ब्रा० उद्--ऊर्द्धोत्क्षेपणे “पुच्छमुदस्यति” सि० कौ० । परि + उद् भिन्नतया बोघने । “प्राधान्यं हि विधेर्यत्र प्रतिषेधेऽप्र- धानता । पर्य्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ्” मीमां० यथा श्राद्धादौ पर्य्युदस्तकालोरात्र्यादिः “अमावास्यायां पितृभ्योदद्यात्” “रात्रौ श्राद्धं न कुर्वीते” त्युभयोरेकवाक्य- तया रात्रीतरामावस्यायां श्राद्धं कुर्व्वीतेति हि बोधः तत्र रात्रिः पर्य्युदस्ता एवमन्यत्रापि । परितःक्षेपणे च “अन्त्याः सर्वे पर्य्युदस्ता मृषिष्ठिरनिवेशने” भा० स० प० । वि + [] उद्--निवारणे । “चीराणीव व्युदस्तानि रेजुस्तत्र महा- वने” “रामा० त्वन्तु हेतूनतीत्यैतान् कामक्रोधौ व्युदस्यच” । भा० स० प० । उप--समीपस्थापने “तस्याधस्त स्तद्बहिरु- पास्यति चमसेषु” कात्या० १०, ५, नि--अर्पणे “न मद्विधे न्यस्यति भारमग्र्यम्” । निक्षेपरूपेणार्पणे च “न्यासीकृता स्थानभिदास्मरेण” कुमा० “राज्यं न्यासमिवाभुनक्” रघुः । उच्चारणपूर्व्वकं तत्र तत्र स
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
अस ल भावे । (अदां-परं-अकं-सेट् ।) भावः सत्ता । सा चेह विद्यमानतैव । ल अस्ति विष्णुः । इति दुर्गादासः ॥ (वि + अति) । अतिक्रमे । पराभवे । “अन्यो व्यतिस्ते तु ममापि धर्म्मः” इति मट्टौ । (अभि) भागसत्तायाम् । “यदत्र ममामिस्यात् दीयताम्” । इति पाणिनिः । (आविस्) आविर्भावे । “तेषामाविरभूद् ब्रह्मा परिम्लानमुखश्रियाम्” । इति कुमारे । (प्रादुस्) प्रादुर्भावे । उद्भवे । “महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः” । इति मनुः ।)
अस इ र् य उ क्षेपे । (दिवां-परं-सकं-सेट् ।) इति कविकल्पद्रुमः ॥ य अस्यति । उ असित्वा अस्त्वा । इर् आस्थत् आसीत् । अस्यमानं महागदा इति भट्टौ ताच्छील्ये शतुः शानः । इति दुर्गा- दासः ॥ (“तस्मिन्नास्थदिषीकास्त्रं रामो रामावबोधितः” । इति रघुवंशे । (अति) अतिक्रमे । पराभवे । “बहुभिश्चैकमत्यस्यन्नेकेन च बहून् जनान्” । इति रामायणे । (वि + अति) उत्ताने । “व्यत्यस्तपाणिना कार्य्यमुपसंग्रहणं गुरोः” । इति मनुः । (अप) टूरनिक्षेपे । चीरानपास्यज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्व्वा” । इति रामायणे । (अभि) अभ्यासे । “अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः” । इति कुमारे । (नि) निक्षेपे । “न मद्विधो न्यस्यति भारमुग्रम्” । इति भट्टौ । (उप + नि) प्रस्तावे । “स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः” । इति किराते । (सं + उप + नि) प्रमा- णादिना दृढीकरणे । “त्वया च मया समुपन्यस्तेष्वपि मन्त्रेष्ववज्ञानं वाक्पारूष्यञ्च कृतम्” । इति हितोपदेशे । (प्रति + नि) स्थापने । “तथैवायुधजालानि भ्रातृभ्यां कवचानि च । रथोपस्थे प्रतिन्यस्य सचर्म्म कठिनं च यत्” ॥ इति रामायणे । (निर्) दूरीकरणे । पराभवे । “यशांसि सर्व्वेषुभृतां निरास्थत्” । “तानर्द्दिददखादीच्च निरास्थच्च तलाहतान्” ॥ इति च भट्टौ । (परि) विस्तृतौ । “पर्य्यस्यन्निह निचयः सहस्रसंख्यां” । किराते ॥ “ताम्रोष्ठ- पर्य्यस्तरुचः स्मितस्य” । इति कुमारे ॥ पातने च । “दासौघटमपां पूर्णं पर्य्यस्येत् प्रेतवत् सदा” । इति मानवे ॥ (सम्) संयोगे । एकत्र संश्लेषे । यथा, -- “सर्व्वोऽप्यवयवोऽह्ना समस्यते ।” “अव्ययं समर्थेन सह समस्यते ॥” इति च पाणिनिः ॥ इत्यादिः ॥
अस ञ् अषार्थे । (भ्वादिं-उभं-सकं-सेट् ।) अषार्थो दीप्तिग्रहणगतयः ॥ “वासुदेवं परित्यज्य योऽन्य- देवमुपासते” । उपगच्छतीत्यर्थः । लावण्य उत्पाद्य- [] इवास यत्न इत्यादिसिद्ध्यै अनेकाथत्वात् सत्ता- र्थोऽयमपीति रमानाथः । अनुप्रयोगादन्यत्रापि परोक्षायामस्तेर्भूभावं केचिन्नेच्छन्तीति धातुप्रदी- पः । इति दुर्गादासः ॥
📄 मूल मुद्रित पृष्ठ (1-151-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें