आकुञ्चन न० आ + कुचि--ल्युट् । सङ्कोचे, प्रसारितस्य संक्षिप्तत्वसम्पादनसाधने क्रियाभेदे “आकुञ्चनन्तु सत्- स्वेवावयवानामारम्भकसंयोगेषु परस्परमवयवानामनार- म्भकसंयोगोत्पादकं वस्त्राद्यवयविकौटिल्योत्प्रादकं कर्म्म, यतो भवति सङ्कुचति पद्मं सङ्कुचति वस्त्रं सङ्कुचति चर्म्मेति प्रत्ययः” वै० सू० उप० । स च कर्म्मभेदः कर्म्म च पञ्चविधम् । “उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्म्मांणि” वै० सू० । अत्र च उत्क्षेपणत्वा- वक्षेपणत्वाकुञ्चनत्वप्रसारणत्वगमनत्वानि कर्म्मत्वसाक्षाद्याप्याः पञ्च जातयः” वै० सू० उ० । कर्म्म च “एकद्रव्य मगुणं मंयोगविभागेष्वनपेक्षकारणमिति कर्म्मलक्षणम्” वै० सू० उक्वलजणकम् । विवृतञ्च उप० “एकमेव द्रव्यमाश्रयो- यस्य तदेकद्रव्य न विद्यते गुणोऽस्मिनित्यगुणम्” संयो- गविभागेष्वनपेक्षकारणगिति स्वोत्पत्त्यनन्तरोत्पत्तिकभाव भूतानपेक्षमित्यर्थः तेन समवायिकारणापेक्षायां पूर्व्वसंयो- गाभावापेक्षयाञ्च नासिद्धत्वम् । स्वोत्पत्त्यनन्तरोत्पत्तिका- नपेक्षत्वं वा विवक्षितम् पूर्व्वसंयोगध्वं सस्यापि स्वोत्पत्त्यन- न्तरानुत्पत्तिकत्वेन अभावत्येन तस्याद्यक्षणे सम्बन्धा- भावात् तेन नित्यावृत्तिसत्तासाक्षाद्व्याप्यजातिमत्त्वं [] कर्म्मत्वम् । प्रचलतीति प्रत्ययासाधारणकारणतावच्छेदक- जातिमत्त्वं वा गुणान्यनिर्गुणमात्रवृत्तिजातिमत्त्वं वा स्वोत्पत्त्यव्यवहितोत्तरक्षणवृत्तिविभागकारणतावच्छेदकजा- तिमत्त्वं वा” “उत्क्षेपणं तथावक्षेपणमाकुञ्चनं तथा । प्रसारणञ्च गमनं कर्म्माण्येतानि पञ्ज च” भाषा० “सन्धिगतः पीड्यमानो न प्रवर्त्तत आकुञ्चनप्रसारणोन्न- मनविनमनप्रधावनोत्कासनप्रबाहणैश्च स्रवति” “प्रसा- रणाकुञ्चनबन्धनपीडनैर्भृशमुपचरेत्” अनुगृह्यते चाकु- ञ्चनप्रसारणादिभिर्विशेषैः” इति च सुश्रुतः ।
📄 मूल मुद्रित पृष्ठ (0600-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।