🕉️ 20 November 2026, Friday · 07:35:57 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

आतपत्र
ātapatra
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
छाता (2.8.32) छत्र
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
आतपत्र, आतपत्रक संज्ञा पुं॰ [सं॰] छाता । छतरी । उ॰—आतपत्र सा रुचिर शीश पर राजित जिनके व्योम वितान ।—पार्वती, पृ॰ ३० ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
आ-तप—त्र n. ‘heat-protector’ (ifc. f(आ). , Megh.; Kathās.), a large umbrella (of silk or leaves), MBh. &c.
📄 मूल मुद्रित पृष्ठ (134,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
आतपत्र न० आतपात् त्रायते त्रै--क । छत्रे । स्वार्थे कन् । आतपत्रकमप्यत्र । “तमातपक्लान्तमनातपत्रम्” । “एकात- पत्रं जगतः प्रभुत्वम्” । “पद्मा पद्मातपपत्रेण भेजे सास्राज्यदीक्षितम्” इति च रघुः । “राज्यं स्वह- स्तधृतदण्डमिवातपत्रम्” शकु० । “तस्यातपत्रं बिभरा- म्बभूवे” माघः । “निजातपत्रस्य तलस्थले नलः” नैष० आतपत्रोत्पत्तिर्यथा भार० आनु० प० ९२, ९३ अ० । “यदिदं श्राद्धकृत्येषु दीयते भरतर्षभ! । छत्रञ्चोपानहौ चैव केनैतत् संप्रवर्त्तितम् । कथञ्चैतत् समुत्पन्नं किम- र्थञ्चैव दीयते । न केवलं श्राद्धकृत्ये पुण्यकेष्वपि दीयते । बहुष्वपि निमित्तेषु पुण्यमाश्रित्य दीयते । एतद्विस्तरतो ब्रह्मन्! श्रोतुमिच्छामि तत्त्वतः । भीष्म उवाच । शृणु राजन्नवहितश्छत्रोपानहविस्तरम् । यथैतत् प्रथितं लोके यथा चैतत् प्रवर्त्तितम् । यथा चाक्षय्यतां प्राप्तं पुण्य- ताञ्च यथा गतम् । सर्वमेतदशेषेण प्रवक्ष्यामि नराधिप! । जमदग्नेश्च संवादं सूर्य्यस्य च महात्मनः । पुरा म भष- वान्साक्षाद्धनुषाऽक्रीडत प्रमो । । सन्धाय सन्धाय शरां- श्चिक्षेप किल भार्गवः । तान् सर्व्वान् रेणुका क्षिप्तांस्तस्ये- षून् दीप्ततेजसः । आनीय सा तदा तस्मै प्रादादसकृद- च्युत! । अथ तेन--स शब्देन ज्यायाश्चैव शरस्य च । प्रहृष्टः सम्प्रचिक्षेप सा च प्रत्याजहार तान् । ततो मध्याह्नमारूढे ज्येष्ठामूले दिबाकरे । स सायकान् द्विजो मुक्त्वा रेणुकामिदमब्रवीत् । गच्छानय विशालाक्षि! शरा- नेतान् धनुश्च्युतान् । यावदेतान् पुनः सुभ्रु! क्षिपा- मीति जनाधिप! । सा गच्छन्त्यन्तरा छायां वृक्षसाश्रित्य भाविनी । तस्थौ तस्य हि सन्तप्तं शिरः पादौ तथैव च । [] स्थित्वा सा तु मुहूर्त्तं वै भर्त्तुः शापभयाच्छुभा । यया- वानयितुं भूयः सायकानलिनेक्षणा । प्रत्याजगाम च शरांस्तानादाय यशस्विनी । सा वै खिन्ना सुचार्व्वङ्गी पद्भ्यां दुःखं नियच्छती । उपाजगाम भर्त्तारं भया- द्भर्त्तुः प्रवेपती । स तामृषिस्तदा क्रुलो वाक्यमाह शुभा- ननाम् । रेणके! किं चिरेण त्वमागतेति पुनः पुनः । रेणुकोवाच । शिरस्तावत् प्रदीप्तं मे पादौ चैव तपोधन! सूर्य्यतेजोनिरुद्धाऽहं वृक्षच्छायां समाश्रिता । एतस्मात् कारणाद्ब्रह्मंश्चिरायैतत् कृतं मया । एतच्छ्रुत्वा मम विभो! मा क्रुधस्त्वं तपोधन! । जमदग्निरुवाच । अद्यैनं दीप्तकिरणं रेणुके! तव दुःखदम् । शरैर्निपातयिष्यासि सूर्य्यमस्त्राग्नितेजसा । भीष्म उवाच । स विस्फार्य्य धनुर्द्दिव्यं गृहीत्वा च शरान् बहून् । अतिष्ठत् सूर्य्यम- भितो यतो याति ततोमुखः” । इत्येवं क्रोधेन आत्मानं (सूर्य्यं) पातयितुमिच्छवे जमठग्नये विप्ररूपं धृत्वागत्य तं च परितोष्य तस्मै छत्रसुपानहौ च सूर्य्योददावित्युक्तं ततोऽध्यायान्तरे यथा । “एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूत्तमः । अथ सूर्य्योऽद- दत्तस्मै च्छत्रोपानहमाशु वै । सूर्य्य उवाचे । महर्षे! शिरसस्त्राणं छत्रं मद्रश्मिवारणम् । प्रतिगृह्णीष्व पद्भ्याञ्च त्राणार्थं चर्म्मपादुके । अद्यप्रभृति चैवेह लोकं सम्प्रचरिष्यति । पुण्यकेषु च सर्व्वेषु परमक्षय्यमेव च । भीष्म उवाच । छत्रोपानहमेतत्तु सूर्य्येणैतत् प्रवर्त्ति- तम् । पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत! । तस्मात् प्रयच्छ विप्रेषु च्छत्रोपानहमुत्तमम् । धर्मस्तेषु महान् भावी न मेऽत्रास्ति विचारणा । छत्रं हि भरतश्रेष्ठ! यः प्रदद्याद्द्विजातये । शुभम् शतशलाकं वै स प्रेत्य मुख- मेधते” । एतल्लक्षणं छत्रशब्दे वक्ष्यते ।
📄 मूल मुद्रित पृष्ठ (0649-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
आतपत्रं, क्ली, (आतप + त्रै + कः) छत्रं । इत्यमरः ॥ (यथा शाकुन्तले, -- “राज्यं स्वहस्तधृतदण्डमिवातपत्रं” । यथा रामायणे, -- “पाण्डरेणातपत्रेण ध्रियमाणेन मूर्द्धनि” ॥ “छत्रशब्देऽस्य गुणादयो ज्ञातव्याः” ।)
📄 मूल मुद्रित पृष्ठ (1-170-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "आतपत्र" आता है (3)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें