🕉️ 20 November 2026, Friday · 06:23:55 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

आरालिक
ārālika
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
आरालिक वि॰ [सं॰ ] [वि, स्त्री॰ आरालिका] रसोईदार । पाचक ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
आरालिक m. (fr. अराल, ‘crooked, deceitful’, T.), a cook, MBh. xv, 19.
📄 मूल मुद्रित पृष्ठ (150,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
आरालिकः [अरालं कुटिलं चरति ठक्] ‘One who deals crookedly’, a cook; (धनलोभेन परप्रोत्साहितः पाचको विषादिसंसृष्टं पचतीति तस्य तथात्वं).
📄 मूल मुद्रित पृष्ठ (0254-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
आरालिक त्रि० अरालं कुटिलं चरति ठक् । १ पाचके २ कुटिलचारिणि च । धनलोभेन परप्रेरितोहि पाचको- विषादिसंसृष्टं पचतीति तस्य कुटिलचारित्वम् । अतो- राज्ञा यथाभूता पाचकानियोज्यास्तद्दर्शितम् सुश्रुते यथा “रिपवो विक्रमाक्रान्ता ये च स्वेऽकृत्यतां गताः । सिसृक्षवः क्रोधविषं विवरं प्राप्य तादृशम् । विषैर्निह- न्युर्निपुणं नृपतिं दुष्टचेतसः । स्त्रियो वा विविधान् योगान् कदाचित्सुभगेच्छया । विषकन्योपयोगाद्वा क्षणाज्जह्यादसून्नरः । तस्माद्वैद्येन सततं विषाद्रक्ष्यो नराधिपः । यस्माच्च चेतोऽनित्यत्वमश्ववत् प्रथितं नृणाम् । न विश्वस्यात्ततो राजा कदाचिदपि कस्यचित् । कुलीनं धार्म्मिकं स्निग्धं सुभृतं सततोत्थितम् । अलुब्धमशठं भक्तं कृतज्ञं प्रियदर्शनम् । क्रोधपारुष्यमात्सर्य्य मदालस्य- विवर्जितम् । जितेन्द्रियं क्षमावन्तं शुचिं शीलदयान्वितम् । मेधाविनमसंश्रान्तमनुरक्तं हितैषिणम् । पटुं प्रगल्भं निपुणं दक्षं मायाविवर्ज्जितम् । पूर्व्वोक्तैश्च गुणैर्युक्तं नित्यं सन्निहितागदम् । महानसे प्रयुञ्जीत वैद्यं तद्विद्यपूजि- तम् । प्रसन्नदिग्देशकृतं शुचिभाण्डं महच्छुचि । सजा- लकं गवाक्षाद्यमात्मवर्गनिषेवितम् । विकक्षसृष्टसंसृष्टं सवितानं कृतार्च्चनम् । परीक्षितस्त्रीपुरुषं भवेच्चापि महातसम् । तत्राध्यक्षं नियुञ्चीत प्रायोवैद्यगुणान्वितम् । शुचयो दक्षिणा दक्षा विनीताः प्रियदर्शनाः । संविभक्ताः सुमनसो नीचकेशनखाः स्यिराः । स्नाता दृढं संयमिनः कृतोष्णीषाः सुसंयताः । तस्य चाज्ञाविधेयाः स्युर्विविधाः परिकर्म्मिणः । आहारस्थितयश्चापि भवन्ति प्राणिनो यतः । तस्मान्महानसे वैद्यः प्रमादरहितो भवेत् । माहानसिकवोढारः सौपौदनिकपौपिकाः । भवेयुर्वैद्यव- शगा ये चाप्यन्ये तु केचन । इङ्गितज्ञो मनुष्याणां [] वाक्चेष्टामुखवैकृतैः । विद्याद्विषस्य दातारमेभिर्लिङ्गैश्च बुद्धि- मान् । न ददात्युत्तरं पृष्टो विवक्षन् मोहमेति च । अपार्थं बहु सङ्कीर्णं भाषते चापि मूढवत् । स्फोटयत्य- ङ्कुलीर्भूमिमकस्माद्विलिखेद्वसेत् । वेपथुर्जायते तस्य त्रस्त- श्चान्योऽन्यमीक्षते । क्षामो विवर्णवक्त्रश्च नखैः किञ्चि- च्छिनत्त्यपि । आलभेतासकृद्दीनः करेण च शिरोरुहान् । निर्यियासुरपद्वारैर्वीक्षते च पुनः पुनः । वर्त्तते विपरीत- स्तु विषदाता विचेतनः । केचिद्भयात् पार्थिवस्य त्वरिता वा तदाज्ञया । असतीमपि सन्तीऽपि चेष्टां कुर्व्वन्ति मानवाः । तस्मात् परीक्षणं कार्य्यं भृत्यानामादितो नृपैः । अन्ने पाने दन्तकाष्ठे तथाभ्यङ्गेऽवलेखने । उत्सा- दने कषाये च परिषेकेऽनुलेपने । स्रक्षु वस्त्रेषु शय्यासु कवचाभरणेषु च । पादुकापादपीठेषु पृष्ठेषु गजवाजिनाम् । विषजुष्टेषु चान्येषु नस्यधूमाञ्जनादिषु । लक्षणानि प्रव- क्ष्यामि चिकित्सामप्यनन्तरम् । नृपभक्ताद्घलिं न्यस्तं सविषं भक्षयन्ति ये । तत्रैव ते विनश्यन्ति मक्षिकावायसादयः । हुतभुक्तेन चान्नेन भृशं चटचटायते । मयूरकण्ठ- प्रतिमो जायते चापि दुःसहः । भिन्नार्च्चिस्तीक्ष्णधूमश्च न चिराच्चोपशाम्यति । चकोरस्याक्षिवैराग्यं जायते क्षिप्रमेव तु । दृष्ट्वान्नं विषसंसृष्टं म्रियन्ते जीवजीवकाः । कोकिलः स्वरवैकृत्यं क्रौञ्चस्तु मदमृच्छति । हृष्येन्मयूर- उद्विग्नः क्रोशतः शुकसारिके । हंसः क्षेडति चात्यर्थं भृङ्गराजस्तु कूजति । पृषतो विसृजत्यश्रु विष्ठां मुञ्चति मर्क्वटः । सन्निकृष्टांस्ततः कुर्य्याद्राज्ञस्तान् मृगपक्षिणः” ।
📄 मूल मुद्रित पृष्ठ (0803-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
आरालिकः, त्रि, (अरालं कुटिलं चरति इति ठक् ।) सूपकारः । पाचकः । इत्यमरः ॥
📄 मूल मुद्रित पृष्ठ (1-188-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें