उदन्या स्त्री अतिगार्द्ध्येन उदकमिच्छति क्यजन्तात् अ । १ पिपासायाम् । “व्यस्यन्नुदन्यां शिशिरैः पयोभिः” भट्टिः बेदे० बा० नयनार्थेऽपि क्यच् । २ उदकनयने च “अथ- यत्रैतत्पुरुषः पिपासतिनाम तेज एव तत्पीतं नयते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येव तत्तेज आचष्ट उदन्येति” छा० उ० यथा च पुरुषस्य पिपासां भवति तद्भाष्ये समर्थितं यथा “यत्र यस्मिन् काल एतन्नाम पिपासति पातुमिच्छतीति पुरुषो भवति । अशिशिषतीतिवदिदमपि गौणमेव नाम भवति । द्रवीकृतस्याशितस्यान्नस्य नेत्र्य आपोऽन्नशुङ्ग देहं क्लेदयन्त्यःशिथिलीकुर्य्युरब्बाहुल्याद्यदि तेजसा न गोष्यन्ते । नितराञ्च तेजसा शोष्यमाणास्वप्सु देह- भावेन परिणममानासु पातुमिच्छा पुरुषष्य जायते तदा पुरुषः पिपासति नाम तदेतदाह । तेजएव तत्तदा पीतमबादि शोपयेद्देहगतलोहितप्राणभावेन नयते परि- णमयति । तद्यथा गोनाय इत्यादि समानमेव । तत्तेज आचष्टे लोकः । उदन्येति उदकं नयतीत्युदन्या उद न्येतीति छान्दसम्” । पिपासा च प्राणस्य धर्म्मः यथाह [] शा० ति० “बुभुक्षा च पिपासा च प्राणस्य, मनसः स्मृतौ । शोकमोहौ, शरीरस्य जन्ममृत्यू, षडूर्मयः” । उद्नः अयम् उदन्य उदकसम्बन्धिनि त्रि० “विश्वा उदन्वया वर्षाधारा उदन्या इव” ऋ० २, ७, ३, “उदन्या उदकस- म्बन्धिनी” भा०
📄 मूल मुद्रित पृष्ठ (1138-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।