🕉️ 20 November 2026, Friday · 12:12:45 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

उद्वाह
udvāha
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
विवाह के और नाम (2.7.61) परिणय · उपयाम · पाणिपीडन
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
उद्वाह संज्ञा पुं॰ [सं॰] [वि॰ उद्वाहक, उद्वाहिक, उद्वाहित, उद्वाही, उद्वाह्य]
१. विवाह ।
२. उठाना । सँभालना (को॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
उद्-वाह m. the act of leading home (a bride), marriage, wedding, MBh.; Kathās.; VarBṛS. &c.
📄 मूल मुद्रित पृष्ठ (191,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
उद्वाहः 1 Bearing up, supporting. --2 Marriage, wedding; असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि Ms. 3. 43. (The Smṛtis mention {8} forms of marriage: --ब्राह्मो दैवस्तथा चार्षः प्राजापत्यस्तथासुरः । गांधर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः ॥).
📄 मूल मुद्रित पृष्ठ (0311-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
उद्वाह यु० पु० उद् + वह घञ् । विवाहे स च ज्ञानविशेष इति रघु० येन ज्ञानेन ममेयं भार्या, ममायं पतिरिति व्यवहारो भवति तादृशं ज्ञानम् । तच्च सम्बन्धभेदेनोभय निष्ठम् । चरमसंस्कार इति नव्यनैयायिकाः । चरमत्वञ्च संस्कारप्रागभावासहचरितत्वम् । द्वितीयविवाहस्य संस्का- रत्वाभावात् तत्प्रागभावसत्त्वेऽपि आद्यविवाहे चरमत्वा- क्षतिः । तत्र च स्त्रियाः संस्काररूपतया विवाहत्वव्यवहारः । यस्य पुरुषस्य विवाहात् प्रागेव चूडादिषु जातेषु मरणम् तत्र पुरुषे चूडादौ संस्कारप्रागभावासहचरितत्वात् अति- व्याप्ते र्नैतत् नाय्यम् । किन्तु शास्त्रविहितसंस्कारान्तिमत्व- मेव चरमत्वमिति युक्तम् । शास्त्रेषु च संस्कारेषु विवाहस्यैबा- न्तिमतया विधानादितरेषामुपान्तिमत्वादिनेति नातिप्र- सङ्गः । यूपाहवनीयादौ यथा संस्कारादेव तत्तच्छब्दप्रवृत्तिः एवं शास्त्रविधिना कृतसंस्कारयोरेव दम्पत्योस्तच्छ- ब्दप्रवृत्तिः । संस्कारश्चालौकिकत्वात् तत्तत्कर्मकला- पसाध्य इति न आदानभात्रेण तत्सिद्धिः । अतएव “अविप्लुत ब्रह्मचर्यो लक्षण्यां स्त्रियमुद्यहेदिति” या० स्मृतौ “उद्वहेत द्विजोभार्याम्” इत्यादौ च विधिश्रवणम्, आदानमात्रस्य प्रमाणान्तरप्राप्ततया तदंशे विधित्वासम्भवात् अप्राप्तप्राप- कस्यैव विधित्वात् अतएव “पाणिग्रहणिकामन्त्रा नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे” इति मनुना मन्त्रविशेषाणामेव भार्य्यात्वरूपसंस्कारप्रयो- जकत्वमभिहितम् । आदानमात्रस्य विवाहत्वे तस्य च लौ- किकत्वात् गृहीतेतरद्रव्यवत् तद्दानविक्रयापत्तिःस्यात् “न निष्क्रयविसर्गाभ्यां भर्त्तुर्भार्य्या वियुज्यते” इति कात्या- यनेन दानविव्रयाभ्यां भार्य्यत्वविगमाभावं वदता च बिवाहस्य लौकिकत्वं निरासितम् । किञ्च विवाहसंस्कारस्य वैधत्वे यथाविधानमेव तत्र प्रवार्त्ततव्यम् । विधानाति- क्रमे च कर्त्तुः प्रत्यवायोऽनिष्टं च फलं भवतीति गम्यते । तद्विघानप्रकारश्च आश्व० गृ० १, ४, कण्डिकादौ दर्शितः अन्येऽपि प्रकारस्तत्तद्गृह्यकारैरुक्तः । स च ततोऽ- सेयः । उद्वाहे वर्ज्जयनीयकन्याः स्मृतिषु दर्शिता यथा । “असपिण्डा च या मातुरसगोत्रा च या पितुः सा प्रशस्ता द्विजातीनां दारकर्म्मणि मैथुने” मनुः । असपि- ण्डाश्च असपिण्डशब्दे ५४१ पृ० मतभेदेनोक्ताः । “अनन्य पर्व्विकां कान्तामसपिण्डां यवीयसीम् । अरोगिणीं भ्रातृमतीमसामानार्षगोत्रजाम्” याज्ञ० । अन्य- पूर्वाश्च । “सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः । [] वाचा दत्ता मनोदत्ता कृतकौतकमङ्गला । उदकस्पर्शिता या च या च पाणिगृहीतिका । आग्निंपरिगता या च पुगर्मूप्रभवा च या । इत्येताः काश्यपेनोक्तादहन्ति कुल- मग्निवत्” काश्य० । “तत्र सपिण्डासगोत्रासमान प्रव- रासु भार्य्यात्वमेव नोत्पद्यते रोगिण्यादिषु भार्य्यात्वे उत्पन्नेऽपि दृष्टदोष एव” मिता० एवमेव रघुनन्दनादयः । समानार्षाश्च आर्षशब्दे ८१३ पृष्ठे दर्शिताः । “सगोत्रां मातुरप्येके नेच्छेन्त्युद्वाहकर्म्मणि । जन्मनाम्नोरविज्ञा ने उद्वहेताविशङ्कितः” इति उ० त० व्यासः । “मातुलस्य सुता मूढ्वा मातृगोत्रां तथैव च । समानप्रवरां चैव गत्वा चान्द्रायाणं चरेत्” मिता० स्मृ० । “आ सप्तमात् पञ्चमाच्च बन्धुभ्यः पितृमातृतः । अविवाह्या सगीत्रा च समानप्रव- रा तथा । पञ्चमे सप्तमे वापि येषां वैवाहिकी क्रिया । ते च सन्तानिनः सर्वे पतिताः शूद्रतां गताः” नारदः । बन्धवश्च उत्तराधिकारशब्दे १०९९ पृ० दर्शिताः । “सगोत्राञ्चेदमत्या- उपयच्छेन्मातृवदेनाम् बिभृयात् समानार्षेयां विवाह्य चान्द्रयणं चरेत्” सुमन्तुः “समानगोत्रप्रवरां समुद्वाह्योप- गम्य च । तस्यामुत्
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
उद्वाहः, पुं, (उत् + वह + घञ् ।) विवाहः । इत्यमरः । तस्य लक्षणं भार्य्यात्वसम्पादकग्रहणम् । तस्य स्वी- काररूपज्ञानविशेषस्य समवायविषयतयोर्भेदात् वरकन्ययोर्विवाहकर्तृत्वकर्म्मत्वे । स तु अष्ट- विधः । वरमाहूय यथाशक्त्यलङ्कृता कन्या यत्र दीयते स ब्राह्मः १ । यत्र यज्ञस्थायर्त्विजे कन्या- दानं स दैवः २ । यत्र वरात् गोद्वयं गृहीत्वा तेनैव सह कन्यादानं स आर्षः ३ । यत्र अनया सह धर्म्मं चरतां इति नियमं कृत्वा कन्यादानं स कायः ४ । यत्र धनं गृहीत्वा कन्यादानं स आसुरः ५ । यत्र कन्यावरयोरन्योन्यानुरागात् त्वं मे भार्य्या त्वं मे पतिरिति निश्चयः स गान्धर्व्वः ६ । यत्र बलात्कारेण कन्याहरणं स राक्षसः ७ । यत्र सुप्तायां मत्तायां प्रमत्तायां वा कन्यायां निर्जने गमनं स पैशाचः ८ । तस्य निर्णयः । सगोत्रामनवरवयस्कां समानप्रवरां पित्रपेक्ष- योर्द्ध्वतनषण्णां पुरुषाणां पुत्रकन्यासन्ततिपरम्प- रया प्रत्येकसप्तमीपर्य्यन्तां अधस्तने तदपेक्षया सप्तमीपर्य्यन्तां पितृबन्ध्वपेक्षयोर्द्ध्वतनषण्णां प्रत्येका- पेक्षया सप्तमोपर्य्यन्तां अधस्तने तदपेक्षया सप्तमी पर्य्यन्तां मातामहसमानोदकां मातामहापेक्ष- योर्द्ध्वतनचतुर्णां पुरुषाणां पुत्त्रकन्यासन्तति- परम्परया प्रत्येकापेक्षया पञ्चमीपर्य्यन्तां अधस्तने तदपेक्षया पञ्चमीपर्य्यन्तां मातृबग्ध्वपेक्षयोर्द्ध्वतन- चतुर्णां प्रत्येकापेक्षया पञ्चमीपर्य्यन्तां अधस्तने त- दपेक्षया पञ्चमीपर्य्यन्ताञ्च कन्यां परित्यज्य उद्वाहः कर्त्तव्यः ॥ पितृबन्धुमातृबन्धुविरहेऽपि तयोर्योग्य- तामवलम्ब्य सप्तमीपर्य्यन्तायाः पञ्चमीपर्य्यन्तायाश्च कन्यायाः परिहारः । वर्ज्जनीयानां कन्यानां मध्येऽपि या त्रिगोत्रान्तरिता सा विवाह्या अत्र सप्तमगणनप्रतियोगिपितृपितृबन्धुपञ्चमगणनप्र- तियोगिमातामहमातृबन्धुगोत्रमादायैव त्रिगोत्र- गणनम् । शूद्रस्य सगोत्राविवाहे दोषाभावः । मातृसपत्नीभ्रातृकन्यां तद्दौहित्रीं अध्यापयितृ- कन्यां शिष्यकन्यां ब्रह्मदगुरुकन्याञ्च परित्यज्य विवाहः कर्त्तव्यः ॥ अथ कन्यादानाधिकारिणः । आदौ पिता । तदभावे पितामहः । तदभावेभ्राता । तदभावे पितृज्ञातिः । तदभावे मातामहः । तद- भावे मातुलः । तदभावे माता । तदभावे माता- महज्ञातिः । एतेषामप्यभावे कन्या स्वयं वरं कुर्य्यात् ॥ अथ विवाहपूर्व्वकर्त्तव्यकर्म्म । अवश्यं- भावि शुभाशुभग्रहादिदोषशान्त्यर्थं होमो हि- [] रण्यगोवस्त्रदानम् । ततो नान्दीश्राद्धम् । लग्न- समये वरे उपस्थिते स्वस्तिवाचनादिकं विधाय वरणम् । स्त्य्राचारादि । ततः कन्यादानं यथाशक्ति धनदानञ्च । ततः स्वगृह्योक्तविधिनाग्निं संस्थाप्य कुशण्डिकां समाप्य पाणिग्रहणं सप्तपदीगमनञ्च कर्त्तव्यम् ॥ * ॥ ज्येष्ठेऽकृतविवाहे विवाहकर्त्ता कनिष्ठः परिवेदनदोषविशिष्टो भवति । ज्येष्ठः परिविन्नः । सा कन्या परिवेदनीया । कन्यादाता परिदायी । तत्पुरोहितः परिकर्त्ता । ते सर्व्वे पतिताः । किन्तु देशान्तरस्थक्लीवैकाण्डवैमात्रेय- वेश्यासक्तशूद्रतुल्यातिरोगिजडमूकान्धवधिरकु- ब्जवामनकुण्ठातिवृद्धनैष्ठिकब्रह्मचारिवानप्रस्थभि- क्षुकृषिसक्तनृपसक्तधनवृद्धिप्रसक्तकामकारिदत्त- कोन्मत्तचौरेषु ज्येष्ठेष्वनूढेष्वपि कनिष्ठविवाहे न दोषः । एवं विकृतरूपानूढा ज्येष्ठा कनिष्ठायाः सोदराया ऊढायाः परिवेदनाय न भवति । इत्यु- द्वाहतत्त्वम् ॥
📄 मूल मुद्रित पृष्ठ (1-243-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "उद्वाह" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें