ऋष्टि स्त्री ॠष--करणे क्तिन् । उभयतो धारायुक्ते १ खड्गे । २ खड्गमात्रे अमरः । ३ आयुधमात्रे च “चित्रोवोयामः प्रयतास्वृष्टिषु” ऋ० १, १६६, ४, “ऋष्टिषु युद्धस्थहेतिषु” भा० । “अंशेष्वेषां निमिमृक्षुरृष्टयः” ऋ० १, ६४, ४, “ऋष्वा ऋष्टीरसृक्षत” ऋ० ५, ५२, ६, “ऋष्टीरायुषवि- शेषान्” भा० “वाशीमन्त ऋष्टिमन्तो मनीषिणः” ऋ० ५, ५७, २, “ऋष्टिर्नाम छुरिका” भा० “शरशक्त्यृष्टि वृष्टिभिः” देवोमा० “धनूंषि चाग्र्याणि शराश्च चित्रा शक्त्यृष्टयः काञ्चनभूषणाश्च” भा० आ० १९४ अ० “कोवोऽन्तर्मरुत ऋष्टिविद्युतः” ऋ० १, १६८, ५, “ऋष्टिविद्युत ऋष्ट्या मेघभे- दनायुधविशेषेण विद्योतमानाः” भा० भावे क्तिच् । ४ हिं- सायाम् ५ अनिष्टोत्पादने । “हिरण्यनिर्णिगुपरा ऋष्टिः” ऋ० १, १६७६, रिष हिंसायां रिष्टिरप्यत्र “गोचरे वा विलग्ने वा ये ग्रहा रिष्टिसूचकाः” ज्योति० ६ दीप्तौ च । ऋष्टिरस्त्यस्य मतुप् । रिष्टियुक्ते दीप्तियुक्ते त्रि० स्त्रियां ङीप् “विद्युद्रथा मरुत ऋष्टिमन्तो दिवो- मर्या” ऋ० ३, ५४, १३ “ऋष्टिमन्तो दीप्तिमन्तः” भा०
📄 मूल मुद्रित पृष्ठ (1455,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।