ओ ओकारः । स तु त्रयोदशस्वरवर्णः । अस्यो- च्चारणस्थानं ओष्ठः कण्ठश्च । (“ओदौतोः कण्ठौ- ष्ठम्” इत्युक्तेः । तथा च शिक्षायामुक्तम् । “ए ऐ तु कण्ठतालव्यावोऔ कण्ठौष्ठजौ स्मृतौ” ॥) स तु ह्रस्वो न भवति । दीर्घः प्लुतश्च भवति । (प्रत्येकं उदात्तानुदात्तस्वरितभेदैस्त्रिविधोऽपि अनुनासिकाननुनासिकभेदाभ्यां षड्विधः । एतेन द्वादशविध एव निर्णीतः ।) [] “ओकारं चञ्चलापाङ्गि ! पञ्चदेवमयं सदा । रक्तविद्युल्लताकारं त्रिगुणात्मानमीश्वरम् ॥ पञ्चप्राणमयं वर्णं नमामि देवमातरम् । एतद्वर्णं महेशानि स्वयं परमकुण्डली” ॥ इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायां) तस्य लेखनप्रकारो यथा, -- “वामतः कुण्डली भूत्वा दक्षान्मध्ये तु कुञ्चिता । किञ्चिद्दक्षगता या तु कुञ्चिता वामतस्त्वधः ॥ ब्रह्मेशविष्णवस्तासु मात्रा तु ब्रह्मरूपिणी । शक्तिश्च परमा सैव ध्यानमस्य प्रवक्ष्यते” ॥ इति वर्णोद्धारतन्त्रम् ॥ * ॥ तस्य नामानि यथा, -- “ओकारः सत्यपीयूषौ पश्चिमास्यः श्रुतिः स्थिरा । सद्योजातो वासुदेवो गायत्री दीर्घजङ्घकः । आप्यायनी चोर्द्ध्वदन्तो लक्ष्मीर्वाणी मुखी द्विजः ॥ उद्देश्यदर्शकस्तीव्रः कैलासो वसुधाक्षरः । प्रणवांशो ब्रह्मसूत्रमजेशः सर्व्वमड्गला ॥ त्रयोदशी दीर्घनासा रतिनाथो दिगम्बरा । त्रैलोक्यविजया प्रक्षा प्रीतिवीजादिकर्षिणी” ॥ इति तन्त्रशास्त्रम् ॥ (अनुबन्धविशेषः । यथाह कविकल्पद्रुमे । “ऐर्यजादिः स्यादोर्निष्ठातन और- निट्” ॥ तेन ओ दी क्षये इत्यस्मात् कृतायां निष्ठायां दीनं दीनवत् इति स्यात् ॥ मातृकान्यासे ऊर्द्ध्वदन्तपङ्क्तौ न्यस्यतया तदाख्ययाप्यभिधानम् । मातृकान्यासमन्त्रो यथा, -- “ओँ नम ऊर्द्ध्वदन्तपङ्क्तौ औं नमऽधोदन्तपङ्क्तौ” ॥)
ओ, व्य, सम्बोधनम् । आह्वानम् । स्मरणम् । अनु- कम्पा । इति मेदिनी ॥
📄 मूल मुद्रित पृष्ठ (1-302-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।