कठ इ कि आध्याने । उत्कण्ठापूर्व्वकस्मरणे इति कविकल्पद्रुमः ॥ (चुरां--पक्षे भ्वां--परं--सकं--सेट्-- इदित् ।) इ कर्म्मणि कण्ठ्यते । कि कण्ठयति । आध्यानं स्मृ म औत्क्ये इत्यत्र व्याख्यातम् । इति दुर्गादासः ॥
कठ तङ्कने । तङ्कनं दुःखेन जीवनम् । इति कवि- कल्पद्रुमः ॥ (भ्वां--परं--अकं--सेट् ।) कठति दीनः । इति दुर्गादासः ॥
कठ इ ङ आध्याने । इति कविकल्पद्रुमः ॥ (भ्वां-- आत्मं--सकं--सेट्--इदित् ।) इ कर्म्मणि कण्ठ्यते । ङ कर्त्तरि कण्ठते । “रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते” । इति दुर्गादासः ॥
कठः, पुं, (कठेन प्रोक्तमधीते यः । कठशाखां अभि- जानाति वा “कठचरकात् लुक्” । इति लुक् । ४ । ३ । १०७ ।) मुनिविशेषः । कठशाखाध्ययनकर्त्ता कठशाखाज्ञः । (यथा महाभारते । १ । पौलमे ८ । २४ । “उद्दालकः कठश्चैव श्वेतश्चैव महायशाः” ॥ ऋग्भेदः । स्वरः । (“कठो मुनौ तदाख्यातवेदाध्येतृज्ञयोः स्वरे” ।) इति हेमचन्द्रः ॥ ब्राह्मणः । इति त्रिकाण्डशेषः ॥ (उपनिषद्विशेषः । यदुक्तं मुक्तिकोपनिषदि । [] “ईशा-केन-कठ-प्रश्न-मुण्ड-माण्डक्य-तित्तिरि” ॥)
📄 मूल मुद्रित पृष्ठ (2-011-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।