कस गतौ भ्वा० पर० सक० सेट् । कसति अकसीत्--अका- सीत् । चकास--ज्वलादित्वात् कर्त्तरि वा ण । कासः । यङ् चनीकस्यते यङ् लुक् चनीकसीति--कस्ति । प्रनिकसति उद् + ऊर्द्धगतौ “उत्कसन्तु हृदयान्यूर्द्ध्वं प्राण उदीषतु” अथ० ११, ९, २ १” । निस् + निर् + अपगतौ निष्कसति । णिचि निष्कासयति “निरकासयद्रविमपेतवसुम्” माघः । वि + प्रकाशे । विकसति पङ्कजकलिका “फुल्लश्च इते विकसिते” अमरः “स प्रीतियोगात् विकसन्मुखश्रीः” कुमा० । “क्षणदृष्टिपातविकसद्वदनाम्” माघः । “विकसद्भिरास्य- कमलैः कमलैः प्रमदाः” माघः “मुखं विकसितस्मितं वशितवक्रिमप्रेक्षितम्” मालतीमा० । णिचि विकासयति व्यचीकसत् । “वचनेन चोपकुसुमं व्यचीकसत्” माघः । “वौ कसल सेत्या०” पा० इनि विकासी । वरच् । विकस्वरः “मुदा रमन्ते कलभा विकस्वरैः” माघः । अनु + वि + अनुरूपविकाशे “अन्तर्जलेऽनुविकसन्मधुमाधवीनाम्” भाग० ३, १५, १७ । प्रवि + प्रकर्षविकाशे प्रविकसति चिरायद्योतिताशेषलोके” माघः सम् + सम्यग्गतौ सङ्कसुकः ।
कस शातने गतौ च अदा० इदित् आत्म० सक० सेट् शातममिह नाशनम् । कंस्ते अकंसिष्ट । चकंसे । प्रनि- कंस्ते । कर्मणि कंस्यते । अकंसि ।
कस शातने गतौ च सक० अदा० आत्म० सेट् । शातन- मत्र नाशनम् । कस्ते अकसिष्ट । चकसे प्रनिकस्ते ।
कस पु० कस--अच् । (कषटीपातर) कषपाषाणे भरतः ।
📄 मूल मुद्रित पृष्ठ (1840,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।