काकजङ्घा, स्त्री, (काकस्य जङ्घेवाकृतिर्यस्याः ।) स्वनामख्यातवृक्षविशेषः । केउया ठेङ्गा इति भाषा । तत्पर्य्यायः । काकाङ्गी २ काकाञ्ची ३ काक- नासिका ४ । इति शब्दरत्नावली ॥ कृषीवलः । इति रत्नमाला ॥ ध्माङ्क्षजङ्घा ६ काकाह्वा ७ सुलोमशा ८ पारावतपदी ९ दासी १० नदीकान्ता ११ । [] अस्या गुणाः । तिक्तत्वम् । उष्णत्वम् । कृमिव्रण- कफबाधिर्य्याजीर्णजीर्णविषमज्वरनाशित्वञ्च । इति राजनिर्घण्टः ॥ (“काकजङ्घा बला श्यामा ब्रह्मदण्डी कृताञ्जलिः । पश्निपर्णी त्वपामार्गस्तथा भृड्गरजोऽष्टमः ॥ एषामन्यतमं मूलं पुष्येणोद्धृत्य यत्नतः । रक्तसूत्रेण संवेष्ट्य बद्धमैकाहिकं जयेत्” ॥ इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥ मसीति लोके । अस्याः पर्य्याया गुणाश्च यथा, -- “काकजङ्घा नदीकान्ता काकतिक्ता सुलोमशा । पारावतपदी दासी काका चापि प्रकीर्त्तिता ॥ काकजङ्घा हिमा तिक्ता कषाया कफपित्तजित् । निहन्ति ज्वरपित्तास्रज्वरकण्डूविषक्रिमीन्” ॥ इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) गुञ्जा । इति रत्नमाला ॥
📄 मूल मुद्रित पृष्ठ (2-077-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।