काश्मरी, स्त्री, (काशते इति । “अनेभ्योऽपि” । ३ । [] २ । ७५ । इति वनिप् “वनोरच” । ४ । १ । ७ । इति ङीव्रौ । पृषोदरात् वस्य मत्वम् ।) गम्भारी- वृक्षः । इत्यमरः । २ । ४ । ३५ ॥ (अस्याः पर्य्याया यथा, -- “गम्भारी भद्रपर्णी च श्रीपर्णी मधुपर्णिका ॥ काश्मीरी काश्मरी हीरा काश्मर्य्यः पीतरोहिणी । कृष्णवृन्ता मधुरसा महाकुसुमिकापि च” ॥ इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥ गुणा- श्चास्या यथात्रैव ॥ “काश्मरी तु वरा तिक्ता वीर्य्योष्णा मधुरा गुरुः । दीपनी पाचनी मेध्या भेदिनी भ्रमशोषजित् ॥ दोषतृष्णाऽमशूलार्शोविषदाहज्वरापहा । तत्फलं वृंहणं वृष्यं गुरुकेश्यं रसायनम् ॥ वातपित्ततृषारक्तक्षयमूत्रविवन्धनुत् । स्वादु पाके हिमं स्निग्धं तुवराम्लविशुद्धिकृत् ॥ हन्याद्दाहतृषावातरक्तपित्तक्षयान् तथा” ॥ * ॥ यथा, महाभारते ३ । १५८ । ४४ । “विल्वान् कपित्थान् जम्बूंश्च काश्मरीर्बदरीस्तथा” ॥)
📄 मूल मुद्रित पृष्ठ (2-119-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।