काश्यपि पु० कश्यपे भवः इञ् । १ अरुणे २ गरुडे च । तयोः कश्यपेन विनतायामुत्पत्तिकथा च भा० आ० ३१ अ० यथा “एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा । विनता नाम कल्याणी पुत्रकामा यशस्विनी । तपस्तप्त्वा व्रतपरा म्नाता पुंसयने शुचिः । उपचक्राम भर्त्तारं, तामुवाचाथ [] कश्यपः । आरम्भः सफलो देवि! भविता यस्त्वयेप्सितः । जनयिष्यसि पुत्त्रौ द्वौ वीरौ त्रिभुवनेश्वरौ । तपसा वा- लिखिल्यानां मम सङ्कल्पजौ तथा । भविष्यतो महाभा- गौ पुत्त्रौ त्रैलोक्यपूजितौ । उवाच चैनां भगवान् क- श्यपः पुनरेव ह । धार्य्यतामप्रमादेन गर्भोऽयं सुमहो- दयः । एतौ सर्व्वपतत्त्रिणामिन्द्रत्वं कारयिष्यतः । लो- कसम्भावितौ वीरौ कामरूपविहङ्गमौ । शतक्रुतुम- थोवाच प्रीयमाणः प्रजापतिः । त्वत्सहायौ महावीर्य्यौ भ्रातरौ ते भविष्यतः । नैताभ्यां भविता दोषः सका- शात्ते पुरन्दरः । व्येतु ते शक्र! सन्तापस्त्वमेवेन्द्रो भवि- ष्यसि । न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः । न चावमान्था दर्पात्ते वाग्वज्रा भृशकोपनाः । एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिपिष्टपम् । विनता चापि सिद्धार्था बभूव मुदिता तथा । जनयामास पुत्त्रौ द्वावरु- णं गरुडं तथा । विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःस- रः । पतत्त्रिणाञ्च गरुड इन्द्रत्वेनाभ्यषिच्यत” ।
📄 मूल मुद्रित पृष्ठ (2040-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।