अनूरु पु० न स्त ऊरू यस्य ब० । सूर्य्यसारथौ विनताज्येष्ठ- पुत्रे अरुणे । तस्य अपूर्णे एव गर्भे मात्रा अण्डस्य स्थोट- नादूरुप्रभृतृद्भावकलत्वम् गत्कथा भा० आदिप० । यथा “ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी । अण्डं बिभेद विनता तत्र पुत्रमपश्यत । पूर्व्वार्द्धकायसम्पन्न- भितरेणाप्रकाशता । स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः । योऽहमेवं कृतो मातस्तया लोभपरीतया । शरीरेणासमग्रेण तष्माद्दासी भविष्यसि । पञ्चवर्षशतान्यस्या यया विष्पर्द्धसे सह । एष च त्वां सुतो मातर्द्दासी- त्वान्मोचयिष्यति । यद्येनमपि मातस्त्वं मामिवाण्डविभे- दनात् । न करिष्यस्यनङ्गं वा व्यङ्गं वापि यशस्विनम् । प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया । विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः । एवं शप्त्वा ततः पुत्रो विनतामन्तरीक्षगः । अरुणो दृश्यते ब्रह्मन् प्रभातसमये सदा । आदित्यरथमध्यास्ते सारथ्यं ममकल्पयदिति” । “गतं तिरश्चीनमनूरुसारथेरिति” माघः ।
📄 मूल मुद्रित पृष्ठ (0191,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।