किञ्जल्कं, क्ली, (किञ्चित् जलति । जल् अपवारणे + बाहुलकात् कः ।) नागकेशरपुष्पम् । पद्मा- भ्यन्तरस्थं केशाकारं करहाटकवेष्ठनम् । केसर इति ख्यातम् । (यथा, रघुः १५ । ५२ । “स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कमिव पङ्कजम् । ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत्” ॥) तत्पर्य्यायः । मकरन्दम् २ किशरम् ३ पद्मकेशरम् ४ किञ्जम् ५ पीतपरागम् ६ तुङ्गम् ७ चाम्पे- यकम् ८ । अस्य गुणाः । मधुरत्वम् । रूक्षत्वम् । कटुत्वम् । आस्यब्रणापहत्वम् । शिशिरत्वम् । रुच्यत्वम् । पित्ततृष्णादाहविनाशित्वञ्च । इति राजनिर्घण्टः ।
किञ्जल्कः, पुं, (किम् + जल + बाहुलकात् कः ।) केशरः । इत्यमरः । १ । १० । ४७ ॥ पद्मकेशरः । तत्पर्य्यायगुणाः । “किञ्जल्कः केशरः प्रोक्तश्चाम्पेयश्चापि स स्मृतः । किञ्जल्कः शीतलो रूक्षः कषायोग्राहकोऽपि सः ॥ कफपिंत्ततृषादाहरक्तार्शोविषशोथजित्” । इति भावप्रकाशः । (वैद्यचक्रपाणिसंग्रहे रक्त पित्ताधिकारे दूर्व्वाद्यतैले व्यवहारो यथा, -- “दूर्व्वासोत्पलकिञ्जल्कमञ्चिष्ठासैलवालुकाः” ॥)
📄 मूल मुद्रित पृष्ठ (2-126-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।