किल्विष न० किल--टिषच्--वुक् च । १ पापे २ अपराधे च अमरः ३ रोगे मेदि० तस्य पापहेतुत्वात् तथात्वम् । “न किल्विषादीषत्ते बस्व आकरः” ऋ०५, ३५, ४, “क्षीरं यदस्याः पीयते तद्वै पितृषु किल्विषम्, अथ० ५, १९५ । “अपराधे । “कोमे लुब्धक! दोषोऽत्र बिद्यते यदि वालिश! । अस्वतन्त्रं च मां मृत्युर्विवशंयदचूचुदत् । तस्यैव वचना- द्दष्टो न कोपेन न काम्यया । तस्य तत् किल्विषं लुब्ध! विद्यते यदि किल्विषम्” इति लुब्धकं प्रति सर्पोक्तिः । पापे “यद्यन्यवशगेनेदं कृतं तु पन्नगाशुभम् । कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्विषी” सर्पं प्रति लुब्धकोक्तिः भा० आनु०१ अ० । तत्र पूर्व्ववाक्ये दोषत्वेन कीर्त्तनात् अपकार- परत्वम् । उत्तरत्र अशुभत्वेन कीर्त्तनात् पापपरत्वम् । “एवं सति न दोषो मे नास्ति बध्यो न किल्विषी । किल्विषं समवाये स्यात् मन्यसे यदि किल्विषम् “तत्रैव । कीर्त्तिभेदके कायिके ४ पापे च । “अपाघमप किल्विषम्” यजु० ३५, ११, “किल्विषं कीर्त्तिभेदकं कायिकं पापम्” वेददी० । ततः अस्त्यर्थे इनि । किल्विषिन् । तद्युक्ते त्रि० ।
📄 मूल मुद्रित पृष्ठ (2055,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।