कुठार पुंस्त्री० कुठ--करणे आरन् । स्वनामख्याते काष्ठच्छेद- नसाधने अस्त्रभेदे स्त्रीत्वे गौरा० ङीष् । “राजन्यो- च्चांसकूटक्रथनपटुरटद्घोरधारः कुठारः” प्रबीध० । “मातुः केवलमेव यौवनवनच्छेदे कुठारावयम्” भर्त्तृ० । “तं त्वा गताहं शरण शरण्यं सभृत्यसंसारतरोः कुठारम्” भाग० ३, २५, १२, तल्लक्षणं हेमा० परि० ख० लक्षण- समुच्चये यथा- “जमदग्निं प्रति शुक्रः प्रोवाच यथोपदेशं शुश्रूषो! निबोध परशोरुत्पत्तिं द्रव्यक्रमयोगं प्रमाणं चोत्तममध्य- माधमानां नराणां सपाणिः पाणिमुक्तैति द्विकर्म्मा परशुर्भवति । तत्र पञ्चाशत्पलिकः श्रेष्ठश्चत्वारिंशत्पलि- कोमध्यमस्त्रिंशत्पलिकः कनिष्ठ इति । जातप्राणस्य पुरुषस्य सर्वायसमयस्त्रिविधः परशुर्भवति सार्द्धपञ्चाङ्गुलं श्रेष्ठस्य, सार्द्धचतुरङ्गुलं मध्यमस्य, सार्द्धत्र्यङ्गुलं निकृष्टस्य, मूलं विसृतम्भवति । तथा मध्ये सार्द्धपञ्चा- ङ्गुलं विसृतं चोत्तममध्यमकनिष्ठानां भवति । तथाङ्ग- मपि पञ्चदशोङ्गलमुत्तमस्य, सार्द्धत्रयोदशाङ्गुलं मध्यमस्य, द्वादशाङ्गुलं निकृष्टस्येति परशोःफलम् । तथोत्तमं द्वाद- शाङ्गुलायामं, मध्यमं दशाङ्गुलायाममधमम ष्टाङ्गुलाया- ममित्येवमपि त्रिविधं भवति । कुणपेष्विव दण्डप्रमाण- मुत्तममध्यमकनिष्ठभेदात्रिविधं शालकधबधन्वनशाका- [] जुनाशरीषशिंशपासनराजवृद्धेन्द्रवृद्धतिन्द कसोमवल्कश्वे- तकार्जुनप्रभृतीनां ह्रस्वप्रमाणो दण्डग्रन्थिर्भवेत् । यस्तु सपाणिः परशुः स यथाकामं प्रयोज्यः । कुणपलक्षणं तु कुणपशब्दे दृश्यं । २ वृक्षे पु० शब्द- रत्ना० । तस्येदम् शिवा० अण् । कौठार तत्सम्बन्धिनि त्रि० स्त्रियां ङीप् । अल्पार्थे क । कुठारक क्षुद्रकुठारे पुंस्त्री० स्त्रियां कुठारिका ।
📄 मूल मुद्रित पृष्ठ (2075-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।