कुबे(वे)रः, पुं, (कुम्बतीति । कुब इ कि आच्छादने “कुम्बेर्नलोपश्च” । उणां १ । ६० । इति एरक् । नलोपश्च । यद्वा कुत्सितं वेरं शरीरं यस्य । पिङ्गल नेत्रत्वात्तथात्वम् ।) यक्षराजः । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥ (स च विश्रवस ऋषे रिलविलायां जातः । स तु त्रिपात् अष्टदन्तः केकराक्षश्च । यथा, वायुपुराणे । “कुत्सायां क्वितिशब्दोऽयं शरीरं वेरमुच्यते । कुवेरः कुशरीरत्वात् नाम्ना तेनैव सोऽङ्कितः” ॥ तथा काशीखण्डे देवीदत्तशापोक्तौ च । “कुवेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत !” ॥)
कुवेरः, पुं, (कुत्सितं वेरं शरीरमस्य ।) तथा च वायु- मार्कण्डेयपुराणे । “कुत्सायां क्विति शब्दोऽयं शरीरं वेरमुच्यते । कुवेरः कुशरीरत्वात् नाम्ना तेनैव सोऽङ्कितः” ॥ इत्यमरटीकायां भरतः ॥ देवताविशेषः । स तु विश्रवोमुनेरिडविडाभार्य्यायां जातः । धनयक्षो- त्तरदिशां पतिश्च । इति श्रीभागवतम् ॥ त्रिच- रणोऽष्टदंष्ट्रोऽयं जातः । तत्पर्य्यायः । त्र्यम्बकसखः २ यक्षराट् ३ गुह्यकेश्वरः ४ मनुष्यधर्म्मा ५ धनदः ६ राजराजः ७ धनाधिपः ८ किन्नरेशः ९ वैश्र- वणः १० पौलस्त्यः ११ नरवाहनः १२ यक्षः १३ एकपिङ्गः १४ ऐलविलः १५ श्रीदः १६ पुण्य- जनेश्वरः १७ । इत्यमरः । १ । १ । ७१ -- ७३ । हर्य्यक्षः १८ अलकाधिपः १९ । इति जटाधरः ॥ * ॥ नन्दीवृक्षः । इति मेदिनी ॥ अर्हदुपासकविशेषः । इति हेमचन्द्रः ॥
कुवेरः, त्रि, (कुत्सितं वेरं क्षेपणं दानादिकं गति- र्वा यस्य ।) मम्दः । इति धरणी ॥ (कुत्सितं वेरं शरीरं यस्य ।) कुशरीरः । इति त्रिकाण्डशेषः ॥
📄 मूल मुद्रित पृष्ठ (2-144-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।