🕉️ 23 November 2026, Monday · 05:26:24 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

कृच्छ्र
kṛcchra
🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
सान्तपन आदि (कठोर प्रायश्चित्त-व्रत) (2.7.56)
तपस् (3.3.247)
दुःख के और नाम (1.9.4) कष्ट · आभील · इनमें · वे
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
कृच्छ्र mf(आ)n. (perhaps fr. √ कृश्, and connected with कष्ट), causing trouble or pain, painful, attended with pain or labour, MBh.; R.; Pañcat.; Suśr.
being in a difficult or painful situation, R. ii, 78, 14
bad, evil, wicked, W.
कृच्छ्र (अस्, अम्), m. n. difficulty, trouble, labour, hardship, calamity, pain, danger (often ifc., e.g. वन-वासक्˚, the difficulties of living in a forest; मूत्र-क्˚, q.v.; अर्थ-कृच्छ्रेषु, in difficulties, in a miserable situation, MBh. iii, 65; Nal. xv, 3; प्राणकृच्छ्र, danger of life, MBh. ii, 6; BhP.), RV. x, 52, 4; Nir.; AitBr. &c.
ischury (= मूत्र-क्˚), L.
bodily mortification, austerity, penance, Gaut.; Mn. &c.
a particular kind of religious penance, Mn.; Yājñ.
कृच्छ्र (अस्), m. N. of Viṣṇu, MBh. xii, 12864
(in comp. with a perf. Pass. p. Pāṇ. ii, 1, 39; vi, 3, 2.)
📄 मूल मुद्रित पृष्ठ (304,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
कृच्छ्र a. [cf. Uṇ. 2. 21] 1 Causing trouble, painful; Ms. 6. 78. --2 Bad, miserable, evil. --3 Wicked, sinful. --4 Being in a difficult or painful situation. --च्छ्रः, --च्छ्रं 1 A difficulty, trouble, hardship, misery, calamity, danger; कृच्छ्रं महत्तीर्णः R. 14. 6; 13. 77. --2 Bodily mortification, penance, expiation; Ms. 4. 222; 5. 21; 11. 106. --3 Torment, torture. --4 A particular kind of religious penance (प्राजापत्य). --च्छ्रः Ischury. --च्छ्रं Sin. --च्छ्रं, कृच्छ्रेत्, कृच्छ्रास् ind. With great difficulty, painfully, miserably; लब्धं कृच्छ्रेण रक्ष्यते H. 1. 185. --Comp. --प्राण a. {1} one whose life is in danger. {2} breathing with difficulty. {3} hardly supporting life. --साध्य a. {1} curable with difficulty (as a patient or disease). {2} accomplished with difficulty
📄 मूल मुद्रित पृष्ठ (0419-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
कृच्छ्र पु० न० कृत--रक् छोऽन्तादेशः उणा० । १ सान्तापनादिव्रते कृच्छ्रश्च नानाविधः मिता० दर्शितः यथा [] “गोमूत्रं गोमयं क्षीरन्दधि सर्प्पिः कुशोदकम् । जग्ध्वा- परेऽह्न्युपवसेत् कृच्छ्रं सान्तपनञ्चरन्” या० । “पूर्वेद्युरा- हारान्तरपरित्यागेन गोमूत्रादीनि गव्यानि पञ्च द्रव्याणि कुशोदकसहितानि संयुज्य पीत्वा अपरेद्युरुषवसेदिति द्वै- रात्रिकः सान्तपनः कृच्छ्रः सान्तपनञ्चोत्तरश्लोके पृथग्वि- धानादवगम्यते । कृच्छ्र इति चान्वर्थसंज्ञेयम् तपोरूपत्वेन क्लेशसाध्यत्वात् । गोमूत्रादीनाम्परिमाणं वक्ष्यते । यदा पुनः पूर्बेद्युरुपोष्यापरेद्युः समन्त्रकं संयुज्य समन्त्रकमेव पञ्चगव्यम्पीयते तदा ब्रह्मकूर्च इत्याख्यायते यथाह पराशरः “गोमूत्रङ्गोनयं क्षीरन्दधि सर्प्पिः कुशोदकम् । निर्दिष्टम्पञ्चगव्यन्तु पवित्रं कायशोधनम् । गोमूत्रन्ता- म्रवर्णायाः, श्वेतायाश्चापि गोमयम् । पवः काञ्चनव- र्णाया, नीलायाश्च तथा दधि । घृतञ्च कृष्णवर्णायाः- सर्वं कापिलमेव वा । अलाभे सर्ववर्णानाम्पञ्चगव्येष्वयं विधिः । गोमूत्रमाषकास्त्वष्टौ गोमयस्य तु षोडश । क्षीरस्य द्वादश प्रोक्ता दध्नस्तु दश कीर्त्तिताः । गोमूत्रव- द्वृतस्येष्टास्तदर्द्धन्तु कुशोदकम् । गायत्र्यादाय गोमूत्रं, गन्धद्वारेति गोमयम् । आप्यायस्वेति च क्षीरन्दधि- क्राव्णेति वै दधि । तेजोऽसि शुक्रमित्याज्यन्देवस्य त्वा कुशोदकम् । पञ्चगव्यमृचा पूतं होमयेदग्निसन्निधौ । सप्तपत्रास्तु ये दर्भा अच्छिन्नाग्राः शुकत्विषः । एतैरु- द्धृत्य होतव्यम्पञ्चगव्यं यथाविधि । इरावती इदंवि- ष्णुर्मानस्तोके च शंवतीः । एताभिश्चैव होतव्यं हुत्वा शेषं पिबेद्द्विजः । प्रणवेन समालोष्ट्य प्रनवेनाभिमन्त्र्य च । प्रणवेन समुद्धृत्य पिबेत्तत् प्रणवेन तु । मध्यमेन पलाशस्य पद्मपत्रेण वा पिबेत् । स्वर्णपात्रेण रौप्येण ब्रह्मतीर्थेन वा पुनः । यत्त्वगस्थिगतम्पापं देहे तिष्ठति मानवे । ब्रह्मकूर्चोपवासस्तु दहत्यग्निरिवेन्धनमिति” । यदात्ये तदेव विमिश्रितम्पञ्चगव्यं त्रिरात्रमभ्यस्यते तदा यतिसान्तपनसंज्ञां लभते “एतदेव त्र्यहाभ्यस्तं यति- सान्तपनं स्मृतमिति” शङ्खस्मरणात् । जावालेन तु स- प्ताहसाध्यं सान्तपनमुक्तम् “गोमूत्रङ्गोमयं क्षीरन्द- धि सर्प्पिः कुशोदकम् । एकैकं प्रत्यहम्पीत्वा त्वहोरात्र- मभोजनम् । कृच्छ्रः सान्तपनो नाम सर्वपापप्रणाशनः” इति । एषाञ्च गुरुलघुकृच्छ्राणां शक्त्याद्यपेक्षया व्यवस्था विज्ञेया । एवमुत्तरत्रापि व्यवस्था बोद्धव्या । महासा- न्तपनाख्यं कृच्छ्रमाह “पृथक् सान्तपनद्रव्यैः षडहः सोपवासकः । सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः [] स्मृतः” या० सप्ताहेनापवर्त्तितो महासान्तपनाख्यः कृच्छ्रो विज्ञेयः कथमित्यपेक्षायामुक्तम् पृथग्भूतैः षड्भिर्गो- मूत्रादिभिरेकैकेनैकैकमहरतिवाहयेत्सप्तमञ्चोपवासेनेति । यमेन तु पञ्चदशाहसम्पाद्यो महासान्तपनोऽभि- हितः “त्र्यहम्पिबेत्तु गोमूत्रन्त्र्यहं वै गोमयम्पिबेत् । त्र्यहन्दधि त्र्यहं क्षीरन्त्र्यहं सर्पिस्ततः शुचिः । महासात्तपनं ह्येतत्सर्वपापप्रणाशनमिति” । जावालेन त्वेकविंशतिरात्रनिर्वर्त्यो महासान्तपन उक्तः । “षण्णामे- कैकमेतेषां त्रिरात्रमुपयोजयेत् । त्र्यहञ्चीपवसे- दन्त्यं महासान्तपनं विदुरिति” । यदा तु षण्णां सान्त- पनद्रव्याणामेकैकस्य द्व्यहमुपयोगस्तदातिसान्तपनम् यथाह मनुः “एतान्येव तथा पेयान्येकैकन्तु द्व्यहं द्व्यहम् । अतिसान्तपनन्नाम श्वपाकमपि शोधयेदिति” । श्वपाकमपि शोधयेदित्यर्थवादः । इति महासान्तपनाति सान्तपने । पर्णकृच्छ्राख्यं व्रतमाह “पर्णोदुम्बररा- जीवविल्वपत्रक
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
कृच्छ्रं, क्ली, (कृन्तति सुखम् । कृति छेदने “कृतेश्छ- क्रू च” । उणां । २ । २१ इति रक् छश्चान्तादेशः ।) कष्टम् । (यथा, मनुः ६ । ७८ । “नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा । तथा त्यजन्निमन्देहं कृच्छ्राद्ग्राहाद्विमुच्यते” ॥ “मिवोपला वा समयावशूका कृच्छ्रेय सर्व्वेष्वपि भेषनं स्यात्” ॥ [] “रेतोविघातप्रभवे तु कृच्छ्रे समीक्ष्य दोषं प्रतिकर्म कुर्य्यात्” ॥ इति चरके चिकित्सास्थाने २६ अध्याये ॥) तद्वति त्रि ॥ कृन्तत्यनेन पापमिति । सान्तपनादि- व्रतम् । इत्यमरः । २ । ७ । ४२ ॥ (यथा, याज्ञवल्क्ये । “गोमूत्रं गोमयं क्षीरं दधिसर्पिःकुशोदकम् । जग्ध्वा परेह्न्युपवसेत् कृच्छ्रं सान्तपनं चरन्” ॥) स्मृतौ व्रते पुंलिङ्गोऽप्ययम् ॥ पापम् । इति मेदिनी ॥ मूत्रकृच्छ्ररोगः । इति राजनिर्घण्टः ॥ (“हरीतकीगोक्षुरराजवृक्ष- पाषाणभिद्धन्नयवासकानाम् । क्वाथं पिबेन्माक्षिकसंप्रयुक्तम् ॥” इति वैद्यकचक्रपाणिसङ्ग्रहे मूत्रकृच्छ्राधिकारे ॥ व्यसनम् । यथा, रामायणे ४ । १४ । १४ । “अनृतं नोक्तपूर्व्वं मे चिरं कृच्छ्रेऽपि तिष्ठता । धर्म्मलोभपरीतेन न च वक्ष्ये कथञ्चन” ॥)
📄 मूल मुद्रित पृष्ठ (2-174-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "कृच्छ्र" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬