क्षीरिका, स्त्री, (क्षीरवत् स्वादोऽस्त्यस्य इति ठन् ।) क्षीरीवृक्षः । क्षीरखर्ज्जूर इति पिण्डखर्ज्जूर इति च केचित् । तत्पर्य्यायः । राजादनः २ फलाध्यक्षः ३ । इत्यमरः । २ । ४ । ४५ ॥ राजातनः ४ राजादन- फलम् ५ अध्यक्षम् ६ मधुका ७ क्षीरवृक्षः ८ पलाशो ९ पर्क्कटप्रियः १० गुरुस्कन्धः ११ श्लेष्मला १२ आतपली १३ वृषा १४ मौलिकाजाली १५ । इति भरतधृतवाचस्पतिः ॥ क्षीरिवृक्षः १६ वानर- प्रियः १७ । इति रत्नमाला ॥ राजन्यः १८ प्रिय- दर्शनः १९ दृढस्कन्धः २० कपीठः २१ । इति जटा- [] धरः ॥ वरादनम् २२ क्षीरी २३ क्षीरी [न्] २४ । इति शब्दरत्नावली ॥ अस्याः फलगुणाः । “क्षीरिकायाः फलं पक्कं गुरु विष्टम्भि शीतलम् । कषायं मधुरं साम्लं नातिवातप्रकोपणम्” ॥ इति राजबल्लभः ॥ अपि च । “क्षीरिकायाः फलं वृष्यं बल्यं स्निग्धं हिमं गुरु । तृष्णामूर्च्छामदभ्रान्तिक्षयदोषत्रयास्रजित्” ॥ इति भावप्रकाशः ॥ अन्यत् राजादनीशब्दे द्रष्ट- व्यम् ॥ * ॥ परमान्नम् । इति राजनिर्घण्टः ॥ (“क्षीरिका मधुरा चैते फलवर्गे प्रकीर्त्तिताः” ॥ इति हारीते प्रथमस्थाने १० अध्याये ॥ परमान्नार्थे पर्य्यायाः पाकप्रकारश्चास्या यथा, -- “पायसं परमान्नं स्यात् क्षीरिकापि तदुच्यते । शुद्धेऽर्द्धपक्वे दुग्धे तु घृताक्तांस्तण्डुलान् पचेत् ॥ ते सिद्धाः क्षीरिका ख्याता ससिताज्ययुतोत्तमा” ॥ गुणाश्च यथा, -- “क्षीरिका दुर्ज्जरा प्रोक्ता वृंहणी बलबर्द्धिनी” ॥ इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे ॥)
📄 मूल मुद्रित पृष्ठ (2-238-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।