क्षुरकः, पुं, (क्षुर + स्वार्थेकन् ।) तिलकवृक्षः । इत्य- मरः । २ । ४ । ४० ॥ कोकिलाक्षः । (अस्य प- र्य्याया यथा, -- “कोकिलाक्षस्तु काकेक्षुरिक्षुरः क्षुरकः क्षुरः । भिक्षुः काण्डेक्षुरप्युक्त इक्षुगन्धेक्षुबालिका” ॥ इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥ अस्य व्यवहारो यथा, -- “यवानी जीरके द्वे च वानरीगजपिप्पली । जातीफलं सपत्रञ्च लवङ्गागुरुचन्दनम् ॥ तालीशं तिलमाषञ्च क्षुरकं गोक्षुरन्तथा । शतावरी शताह्वा च वचा दार्व्वी पुनर्नवा ॥ निकुम्भकुम्भौ मार्ज्जारी कन्दो नागवला तथा । वासामांसी मुरामुस्तं पिप्पलीमूलमेव च ॥ मूषली वानरी ब्रह्मी शाल्मली मूलमेव च । मेथिकागजकर्णी च शर्करा चाब्धिशोषणम् । माजुफलञ्चाश्वगन्धा द्राक्षा च चोचकं समम्” ॥ इत्यादिषु द्रष्टव्यम् । इति वैद्यककषायणसंग्रहे बृहत्कामेश्वरमोदकान्तर्गते ॥) गोक्षुरः । इति मेदिनी ॥ भूताङ्कुशः । इति राजनिर्घण्टः ॥
📄 मूल मुद्रित पृष्ठ (2-249-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।