🕉️ 20 November 2026, Friday · 11:15:28 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

क्ष
kṣa
ⓘ "क्ष्" ठीक इसी रूप में नहीं मिला — निकटतम शब्द दिखाया गया है।
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
क्ष संज्ञा पुं॰ [सं॰]
१. विध्वंस । विनाश ।
२. हानि । अंतर्धान । लोप ।
३. खेत ।
४. कृषक । किसान ।
५. विष्णु का चौथा अवतार ।
६. विद्युत । बिजली ।
७. एक राक्षस [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
1. क्ष (fr. √ 1. or 2. क्षि) See द्युक्ष
क्ष m. a field, L.
the protector or cultivator of a field, peasant, L.
2. क्ष mfn. (fr. √ 4. क्षि) See तुविक्ष
क्ष m. destruction, loss, L.
destruction of the world, L.
lightning, L.
a demon or Rakṣas, L.
the fourth incarnation of Viṣṇu (as the man-lion or nara-siṃha), L.
📄 मूल मुद्रित पृष्ठ (324,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
क्षः 1 Destruction. --2 Disappearance, loss. --3 Lightning. --4 A field. --5 A farmer. --6 Viṣṇu in his 4th or Narasiṃha incarnation. --7 A demon.
📄 मूल मुद्रित पृष्ठ (0434-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
क्ष पु० क्षि--बा० ड । १ संवर्त्ते २ राक्षसे ३ नरसिंहे ४ विद्यति ५ क्षेत्रे ६ क्षेत्रपाले ७ नाशे च मेदि० । तस्य वाचकशब्दाः तन्त्रशास्त्रे वर्ण्णाभिधाने उक्ता यथा “क्षः कोपस्तुम्बुकः कालोरूक्षः संवर्त्तकः परः । नृसिं- होविद्युता माया महातेजा युगान्तकः । परात्मा क्रोध- संहारौ वर्णात्तो मेरुवाचकः । सर्वाङ्गः सागरः कामः संयोगान्तस्त्रिपूरकः । क्षेत्रपालो महाक्षोभी मातृका- न्तोऽनलः क्षयः । मुखं कव्यवहानन्ता कालजिह्वा गणे- श्वरः । छायापुत्रश्च संघातोमलयश्रीर्ललाटगः” अत्र संयो- गान्त इत्युक्तेः शब्दकल्पद्रुमेक्षकारस्य वर्ण्णान्तरत्वकल्पनम् लोकशास्त्रविरुद्धत्वादतीव प्रामादिकम् । तथाहि अस्य कषयाः संयागजत्वेन कादित्वम । पृथग्वर्ण्णत्वे [] चक्षमे चुक्षोद चिक्षेपेत्यादिकपदं न सिद्ध्येत् असंयक्त- तया हलादिशेषाप्रसक्तौ कवर्गादित्वाभावेन चुत्वा- प्रसक्तेः । किञ्च संयुक्तवर्ण्णात् पूर्व्वस्य गुरुत्वेन “निपीय यस्य क्षितिरक्षिणः कथाम्” नैषधे “लाङ्गूलविक्षप विसर्पिशोभैः कुमारादौ काव्ये च “गजारूढोयाति- क्षितिपतिरित्यादौ” “दक्षिणे कालिकेति” च भैवरतन्त्रोक्त कालीस्तवे च सर्वत्र तत्पूर्व्वस्य गुरुत्वे सत्येव छन्दोनु- गुणता असंयुक्तवर्ण्णत्वे सर्बत्र छन्दोभङ्गः स्यात् । न च तस्यासंयुक्ततया क्वचिदपि तत्पूर्व्वस्य लघुत्वं दृष्टम् । अतएव कविकल्पद्रमे” “स्वदाद्यन्तादिमक्रमः” इति प्रति- ज्ञाय कादिष्वेव क्षकारादिधातुपाठः मेदिन्यादौ कोषेऽनि तथैव कादिषु तस्य पाठः । तन्त्रेतु कषयोः संयोगजत्वेऽपि मातृकावर्ण्णानामेक- पञ्चाशत्संख्यापरिपूर्त्त्यै लकारवत् पृथक कीर्त्तनं न्यासादिकार्य्यार्थं “पञ्चाशल्लिपिभिर्माला विदिता सर्व्व- कर्मसु । अकारादिक्षकारान्ता वर्णमाला प्रकीर्त्तिता । क्षर्णं मेरुमुखं तत्र कल्पयेनमुनिसत्तम! । अनया सर्त्र- मन्त्राणां जपः सर्वसमृद्धिदः” इति गोतमतन्त्रोक्तजपा- ङ्गमालाकल्पनार्थञ्च न वर्ण्णान्तरत्वार्थम् । एवं सर्वसामञ्जस्ये वर्णान्तरत्वकल्पनं लोकशास्त्रविरुद्धत्वादुपेक्ष्यम् । “विशेषं कथयाम्यद्य प्रोच्चार्य्याः कण्ठतः स्वराः । ऋद्वयं जिह्वया मूर्द्ध्ना ऌद्वयं दत्तजिह्वया । मुखस्थानाद्धलोवाच्याः क्षकारः कण्ठघातजः” इति वरदातन्त्रे १० पटले तस्य कण्ठ- स्थानोच्चर्य्यत्वीक्तिरपि आद्यककाराभिप्रायेण द्रष्टव्या । “अतएव षान्ताः स्युर्यदि वा क्षान्ता वर्ण्णानामनुरोधतः । पृथक् क्रमेण वक्ष्यन्ते तथाऽप्येते समन्वयात्” विश्व- प्रकाशे तस्य उभयरूपतासमन्वय उक्तः । तत्समन्वयश्च- उक्तरीत्या बोध्यः । एतेन वङ्गानां खतुल्यत्वेन मैथि- लानां च तस्य छकारत्वेनोच्चारणं प्रामादिकमेव ।
📄 मूल मुद्रित पृष्ठ (2351-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
क्ष, क्षकारः । (अयन्तु ककारषकारयोगेन जातः । अतोऽस्य पृथक् वर्णत्वशङ्का नास्त्येव ।) तन्त्रमते तु व्यञ्जनचतुस्त्रिंशवर्णः । अष्टमवर्गीयपञ्चमवर्णः । एकपञ्चाशन्मातृकावर्णानां चरमवर्णश्च । यथा, -- “पञ्चाशल्लिपिभिर्माला विहिता सर्व्वकर्म्मसु । अकारादिक्षकारान्ता वर्णमाला प्रकीर्त्तिता ॥ क्षार्णं मेरु मुखं तत्र कल्पयेन्मुनिसत्तमः । अनया सर्व्वमन्त्राणां जपः सर्व्वसमृद्धिदः” ॥ इति गौतमीयतन्त्रम् ॥ * ॥ कण्टदेशोद्भवोऽयम् । यथा, -- श्रीशिव उवाच । “विशेषं कथयाम्यद्य प्रोच्चार्य्याः कण्ठतः स्वराः । ऋद्वयं जिह्वया मूर्द्ध्ना ऌद्वयं जिह्वदन्तजम् । मुखस्थानाद्धलो वाच्याः क्षकारः कण्ठघातजः” ॥ इति वरदातन्त्रे १० पटलः ॥ * ॥ अस्य स्वरूपं यथा, -- “क्षकारं शृणु चार्व्वङ्गि ! कुण्डलीत्रयसंयुतम् । चतुर्व्वर्गमयं वर्णं पञ्चदेवमयं सदा । पञ्चप्राणात्मकं वर्णं त्रिशक्तिसहितं सदा ॥ त्रिविन्दुसहितं वर्णमात्मादितत्त्वसंयुतम् । शरच्चन्द्रप्रतीकाशं हृदि भावय सुन्दरि !” ॥ इति कामधेनुतन्त्रम् ॥ * ॥ अस्याभिधानानि यथा, -- “क्षः कोपस्तुम्बुकः कालो रूक्षः सम्बर्त्तकः परः । नृसिंहो विद्युता माया महातेजा युगान्तकः ॥ [] परात्मा क्रोधसंहारौ बलान्तो मेरुवाचकः । सर्व्वाङ्गः सागरः कामः संयोगान्त्यस्त्रिपूरकः ॥ क्षेत्रपालो महाक्षोभो मातृकान्तानलः क्षयः । मुखं कव्यवहानन्ता कालजिह्वा गणेश्वरः । छायापुत्त्रश्च संघातो मलयश्रीर्ललाटकः” ॥ इति तन्त्रशास्त्रे वर्णाभिधानम् ॥ * ॥ अपि च । “क्षकारो नरसिंहश्च मेरुः सम्बर्त्तकोऽपि च । तव स्नेहान्मया देवि ! कथितं मातृकाक्षरम् । पर्य्यायैरपि विज्ञेयं न प्रकाश्यं कदाचन” ॥ इति श्रीरुद्रयामले ८ पटले मन्त्राभिधानम् ॥ * ॥ अस्य ध्यानं यथा, -- “चतुर्भुजां रक्तवर्णां शुक्लाम्बरविभूषिताम् । रत्नालङ्कारसंयुक्तां वरदां पद्मलोचनाम् ॥ ईषद्धास्यमुखीं लोलां रक्तचन्दनचर्च्चिताम् । शंदात्रीञ्च चतुर्व्वर्गप्रदां सौम्यां मनोहराम् ॥ गन्धर्व्वसिद्धदेवाद्यैर्ध्यातामाद्यां सुरेश्वरीम् । एवं ध्यात्वा क्षकारन्तु तन्मन्त्रं दशधा जपेत्” ॥ इति वर्णोद्धारतन्त्रम् ॥ क्षकारस्य ककारषकार- योगजत्वेन केचित् पृथग्वर्णत्वेन न मन्यन्ते । तेषां मते तन्त्रोक्तैकपञ्चाशद्वर्णानुपपत्तिः तन्त्रशास्त्रे तस्य मेरुत्वेन गणनानुपपत्तिश्च भवति । अतः पृथङ्निर्दिश्यते इति केचित् । तथा च । “षान्ताः स्युर्यद्यपि क्षान्ता वर्णानामनुरोधतः । पृथक्क्रमेण कथ्यन्ते तथाप्येते समन्वयात्” ॥ इति विश्वप्रकाशः ॥ अपि च । “अकारादिलकारान्ता वर्णाः पञ्चाशदीरिताः । संयोगात् कषयोरेषः क्षकारो मेरुरीरितः” ॥ इति कृष्णानन्दधृततन्त्रशास्त्रम् ॥
क्षः, पुं, (क्षयति लोकान् युगान्तकाले प्रलये सर्व्वाणि भूतानि महाकालोदरं प्रेरयतीति । क्षि क्षये + ड प्रत्ययः ।) सम्बर्त्तः । (क्षिणोति हन्ति मनु- ष्यादिजीवानिति । राक्षसः । (क्षिणोति हन्ति हिरण्यकशिघाद्यसुरानिति ।) नरसिंहः । (क्षयति क्षिणोति वा भूतानि स्वकीयाग्निना इति ।) विद्युत् । (क्षयति शस्याद्युत्पत्त्या क्रमशः इति । क्षि + डः ।) क्षेत्रम् । क्षेत्रपालः । (क्षि क्षये + भावे डः ।) नाशः । इति मुद्राङ्कितमेदिनी ॥
📄 मूल मुद्रित पृष्ठ (2-223-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें