खपुरं, क्ली, (खं आकाशं पिपर्त्ति । पॄ + कः ।) घटः । इति हेमचन्द्रः ॥ (खे आकाशे चरं पुरम् ।) ऊर्द्ध्वगं पुरम् । (स तु दैत्यपुरविशेषः । तदुत्पत्तिकथा यथा, महाभारते । ३ । १७३ । निवातकवचवधे । ७-११ । “पुलोमा नाम दैतेयी कालका च महासुरी । दिव्यवर्षसहस्रं ते चेरतुः परमं तपः ॥ तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददद्वरम् ॥ अगृह्णीतां वरं ते तु सुतानामपदुःखिताम् । अवध्यताञ्च राजेन्द्र ! सुरराक्षसपन्नगैः ॥ पुरं सुरमणियञ्च खेचरञ्च महाप्रभम् । सर्व्वरत्नैः समुदितं दुर्द्धर्षममरैरपि ॥ महर्षियक्षगन्धर्व्वपन्नगासुरराक्षसैः । सर्व्वंकामगुणोपेतं वीतशोकमनामयम् ॥ [] ब्रह्मणा भरतश्रेष्ठ ! कालकेयकृते कृतम् । तदेतत् खपुरं दिव्यं चरत्यमरवर्ज्जितम् ॥” खे आकाशे उत्थितं पुरम् । शुभाशुभादि- सूचनार्थं प्रकाशितं गन्धर्व्वनगरम् । अस्यो- त्तरादिदिग्भेदेनोदये फलभेदो यथा, बृहत्- संहितायाम् ३६ अध्याये । “उदगादिपुरोहितनृपबलपतियुवराजदोषदं खपुरम् । सितरक्तपीतकृष्णं विप्रादीनामभावाय ॥ नागरनृपतिजयावहमुदग्विदिक्स्थं विवर्ण- नाशाय । शान्ताशायां दृष्टं सतोरणं विजयाय ॥ सर्व्वदिगुत्थं सततोत्थितञ्च भयदं नरेन्द्रराष्ट्रा- णाम् । चौराटविकान् हन्याद्धूमानलशक्रचापाभम् ॥ गन्धर्व्वनगरमुत्थितमापाण्डुरमशनिनिपातवात- करम् । दीप्ते नरेन्द्रमृत्युर्वामेऽरिभयं जयः सव्ये ॥ अनेकवर्णाकृति खे प्रकाशते पुरं पताकाध्वजतोरणान्वितम् । यदा तदा नागमनुष्यवाजिनां पिबत्यसृग्भूरि रणे वसुन्धरा ॥”) हरिश्चन्द्रपुरम् । इति त्रिकाण्डशेषः ॥
खपुरः, पुं, (खं पिपर्त्ति उच्छ्रयत्वेन । पॄ + कः ।) गुवाकः । (अस्य पर्य्याया यथा । “खपुरो ह्रस्वकः पूगः ।” इति वैद्यकरत्नमाला- याम् ॥ खेन आकाशागतेन हिमकरादिना पूर्य्यते इति । पॄ + कर्म्मणि घञर्थे कः ।) भद्रमुस्त- कम् । (खमिन्द्रियं पिपर्त्ति । पॄ + कः ।) अलसके त्रि । इति मेदिनी ॥ व्यालनखः । इति राजनिर्धण्टः ॥
📄 मूल मुद्रित पृष्ठ (2-276-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।