🕉️ 19 November 2026, Thursday · 11:03:53 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

गदा
gadā
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
गदा संज्ञा स्त्री॰ [सं॰]
१. एक प्राचीन अस्त्र का नाम जो लोहे आदि का होता है । इसमें लोहे का एक डंडा होता है जिसके एक सिरे पर खारी लट्टू लगा रहता है । इसका डंडा पकड़कर लट्टू की ओर से शत्रु पर प्रहार करते हैं ।
२. कसरत के उपकरणों में एक, जिसमें बाँस आदि के एक मजबूत डंडे के सिरे पर पत्थर का गोला छेदकर लगाते और उसे मुगदर की भाँति भाँजने हैं ।
गदा २ वि॰ [फा़॰] भिक्षुक । भिखमंगा । फकीर । उ॰—सीकंदर और गदा दोऊ को एकै जानै ।—पलटू॰ भा॰ १, पृ॰ १४ । (ख) गदा समझ के वो चुप था मेरी जो शामत आई । उठा औ उठ के कदम मैंने पासबाँ के लिए ।—कविता कौ॰; भा॰ ४, पृ॰ ४७८ । यौ॰—गदाई, गदागरी = भिक्षुकी । भिखमंगापन । फकीरी ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गदा f. a series of sentences, RāmatUp. ii, 5, 4
a mace, club, bludgeon, MBh.; R. &c.
Bignonia suaveolens, L.
N. of a musical instrument
of a constellation, VarBṛ.; Laghuj.
v.l. for गधा, TS., Sch. (cf. अ-गद, अ-विज्ञात-ग्˚.)
गदा f. of ˚द, q.v.
📄 मूल मुद्रित पृष्ठ (344,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गदा [गद्-अच् टाप्] A mace, club; संचूर्णयामि गदया न सुयोधनोरू Ve. 1. 15. --Comp. --अग्रपाणि a. having a mace in the right hand. --धरः an epithet of Viṣṇu. --भृत् a. a clubbearer, one who fights with a mace. [] (--m.) an epithet of Viṣṇu. --युद्धं a fight with clubs. --हस्त a. armed with a club.
📄 मूल मुद्रित पृष्ठ (0449-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
गदा स्त्री गद--अच् टाप् । १ स्वनामख्याते लौहादि- कीलिते, २ लौहमये वाऽस्त्रभेदे, तद्युद्धक्रियाभेदो वह्नि पु० धनुर्वेदे दर्शितो यथा “आहतं विहृतं चैव गोमूत्रकमनावनम् । तथोर्द्धगावनमितं वामदक्षिणमेव [] च । व्याहृतञ्च परावृत्तम् पादोद्धूतमवप्लुतम् । हंसमार्गं विमागञ्च गदाकर्म्म प्रकीर्त्तितम्” । तत्रैवा- नतिदूरे च “सव्यासव्यवटङ्गञ्च वराहोद्धूतकं तथा । हस्तावहस्तपालीनमेकहस्तावहस्तके । द्विहस्तबाहुपाशे च कठिकाचितकोद्धते । प्रव्ये ललाटघाते च भुजावि- धमनं तथा । कारोद्धूतं विमानञ्च पादाहतविपादकम् । गात्रसंप्रंषणं क्लान्तं तथागात्रविपर्य्ययम् । ऊर्द्धप्रहारं वातञ्च गोमूत्रे सव्यदक्षिणे । पादसन्ताडनं मण्डं कवचं विधमाकुलम् । तिर्य्यग्वन्धमपाधातं भीमवेगप्रदर्श- नम् । सिंहाक्रातं गजाक्रान्तं गर्द्धभाक्रान्तमेव च । गदाकर्म्माणि जानीयात्” । भा० शल्य० गदा पर्वणि ५७ अ० तु अन्यथै च प्रकारो दर्शितः यथा “अचरद्भीमसेनस्तु मार्गान् बहुविधांस्तथा । मण्ड- लानि विचित्राणि गतप्रत्यागतानि च । अस्त्रय- न्त्राणि चित्राणि स्थानानि विविधानि च । परिमोक्षं प्रहाराणां वर्जनं परिधावनम् । अभिद्रवणमाक्षेप- मवस्थानं सविग्रहम् । परिवर्त्तनसंवर्तमवप्लुतमुपप्लु- तम् । उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ । एवन्तौ विचरन्तौ तु न्यघ्नतां वै परस्परम्” । “मण्डलानि शत्रोः परिवेष्टनानि परितो भ्रमणानि । गतं शत्रोः सम्मुख- नमनं प्रत्यागतम् आभिमुख्येन तत एवापसरणम् । अस्त्र- यन्त्राणि कठिनमर्मदेशमाक्षिप्य येन शत्रोरुत्क्षेपणमप- क्षेपणं च क्रियते तदस्त्रयन्त्रम् अस्यते क्षिप्यतेऽनेनेत्यस्त्रं तच्च तद्यन्त्रं निग्रहणम् चास्त्रयन्त्रमिति समासः । स्था- नानि तेषामेवोपयोगीनि मर्मदेशादीनि परिधावनं वे- गेन सव्यापसव्यकरणम् । अभिद्रवणं वेगेनाभ्यागमनम् आक्षेपं परयत्नस्य तत्पातनहेतुतासम्पादनम् । अवस्थान- मचाञ्चल्यं सविग्रहं शत्रावुत्थिते पुनस्तेन सहयुद्धकरणं परिवर्त्तनं शत्रुं प्रहर्त्तुं परितः प्रसरणं, संवर्त्तं शत्रु- प्रसरणस्यावरोधनम् अवप्लुतं प्रहारवञ्चनार्थं नम्रीभावेन निःसरणम् उपप्लुतं तदेवार्वाग्गमनयुक्तम् । उपन्यस्तं उपेत्यायुधप्रक्षेपः अपन्यस्तं परावृत्य पृष्ठतः कृतेन ह- स्तेन शत्रोस्ताडनम्” नी० क० । गदालक्षणन्तु हेमा० परि० ख० लक्षणसमुच्चये “गदा पञ्चा- शदङ्गुलायामा श्रेष्ठा, चत्वारिंशदङ्गुलायामा मध्या, त्रिंशदङ्गुलायामा कनिष्ठेत्यादि” अधिकं तत्रैव दृश्यम् । असुरभेदस्य गदस्यास्थिजातत्वात् विष्णुगदायास्तथात्वम् । यथा वायुपु० गयामा० ५ अ० । “गदो गामासुरो ह्यासीत् [] वज्राद्वज्रतरो दृढः । प्रार्थितो ब्रह्मणे प्रादात् स्वशरीरास्थि दुस्त्यजम् । ब्रह्मोक्तो विश्वकर्म्मापि गदां चक्रेऽद्भुतां तदा । तदस्थ्ना वज्रनिष्पेषैः कुन्दैः स्वर्गेऽप्यधारयत्” तस्याश्च विष्णवे दानकथा गदाधरशब्दे वक्ष्यते अन्य गदानां तदाकृतित्वात्तथात्वम् । “मनस्तत्त्वात्मकं चक्रं बुद्धितत्त्वा- त्मिकां गदाम्” विष्णु स० भा० धृतवाक्यात् ३ बुद्धितत्त्वे च । गदाधरः गदाभृत् । ४ पाटलावृक्षे शब्दच० ।
📄 मूल मुद्रित पृष्ठ (2517-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
गदा, स्त्री, (गदयति पीडयत्यनया विपक्षमितिशेषः । गद् + णिच् + करणे अप + टाप् च । गदयतीति णिच् अच् वा ।) स्वनामख्यातलौहमयास्त्रम् । इति मेदिनी । दे । ४ ॥ (यथा महाभारते । ९ । ५६ । ४५ । “तं महात्मा महात्मातं गदामद्यम्य पाण्डवः । आमदुद्राव वेगेन धार्त्तराष्ट्र वृकादरः ॥ गदायुद्धस्य गतिप्रहारादिभेदो यथा तत्रैव । ९ । ५७ । १७--२० । “अचरद्भीमसेनस्तु मागान् बहुविधांस्तथा मण्डलानि विचित्राणि गतप्रत्यागतानि च ॥ अस्त्रयन्त्राणि चित्राणि स्थानानि विविधानि च । परिमोक्षं प्रहराणां वर्ज्जनं परिवारणम् ॥ अभिद्रवणमाक्षेपमवस्थानं सविग्रहम् । परिवर्त्तनसंवर्त्तमवप्लुतमुपप्लुतम् ॥ उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ । एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम् ॥” भगवतो विष्णोर्गदा तु गदसंज्ञकस्यासुरविशेष- स्यास्थ्ना देवशिल्पिना विश्वकर्म्मणा निर्म्मिता । [] अतएवासौ गदेति नाम्ना प्रसिद्धा अपरा गदा तु एतदुपलक्षणेनैव सिद्धेति बोध्यम् । यथा, वायु- पुराणे गयामाहात्म्ये ५ अध्याये । “गदो नामासुरो ह्यासीत् वज्राद्वज्रतरो दृढः । प्रार्थितो ब्रह्मणे प्रादात् स्वशरीरास्थि दुस्त्यजम् । ब्रह्मोक्तो विश्वकर्म्मापि गदां चक्रेऽद्भतां तदा ॥” योगविशेषः । यथा, लघुजातकप्रकरणे । १० । ३ । “अनन्तरयोः केन्द्रयोर्यदा सर्व्वे ग्रहा भवन्ति । तदा गदानाम योगो भवति ॥”) पाटलावृक्षः । इति शब्दचन्द्रिका ॥
📄 मूल मुद्रित पृष्ठ (2-299-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "गदा" आता है (6)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें