गानं, क्ली, (गीयते इति । गै + भावे ल्युट् ।) गीतम् । इत्यमरः । १ । ७ । २५ ॥ (यदुक्तम्, -- “जपकोटिगुणं ध्यानं ध्यानकोटिगुणो लयः । लयकोटिगुणं गानं गानात् परतरं न हि ॥”) तत्पर्य्यायः । गेयम् २ गीतिः ३ गान्धर्व्वम् ४ । इति हेमचन्द्रः । २ । १९४ ॥ (गानं हि वैदिक- लौकिकभेदात् द्विविधम् । तत्र वैदिकगानन्तु मुक्तिप्रदं अन्यत् लोकरञ्जनकरम् । वैदिक- लौकिकयोर्मार्गदेशीति नामान्तरमपि श्रूयते । गानन्तु सामवेदादेव उत्पन्नं यदुक्तं सङ्गीतं- दर्पणटीकायाम् । “ऋग्भिः पाठ्यममूद्गीतं सामभ्यः समपद्यत । यजुर्भ्योऽभिनया जाता रसाश्चाथर्व्वणः स्मृताः ॥” द्विविघसङ्गीतयोर्लक्षणमाह सङ्गीतदर्पणे । ३-६ । “मार्गदेशीविभागेन सङ्गीतं द्विविधं मतम् । द्रुहिणेन यदन्विष्टं प्रयुक्तं भरतेन च । महादेवस्य पुरतस्तन्मार्गाख्यं विमुक्तिदम् ॥ तत्तद्देशस्थया रीत्या यत् स्याल्लोकानुरञ्जनम् । देशे देशे तु सङ्गीतं तद्देशीत्यभिधीयते ॥ गीतवादित्रनृत्यानां रक्तिः साधारणो गुणः । अतो रक्तिविहीनं यत् न तत् सङ्गीतमुच्यते ॥” गानन्तु नादात्मकमेव नादस्तु यदा स्वयं राजते तदा स्वर इति प्रसिद्धः स्यात् । स्वरस्तु षड्ज- ऋषभ-गान्धार-मध्यम-पञ्चम-धैवत-निषादभेदात् सप्तविधः । एतेषां विज्ञापनार्थं एतदाश्रयीभूत- द्वाविंशतिश्रुतीनां नामानि स्वरस्थितिश्च कथ्यन्ते । यथा, सङ्गीतदर्पणे । ५३--५६ । “तीव्राकुमुद्वतीमन्दाछन्दोवत्यस्तु षड्जगाः । दयावती रञ्जनी च रतिका चर्षभे स्थिता ॥ रौद्री क्रोधा च गान्धारे वज्रिकाथ प्रसारिणी । प्रीतिश्च मार्ज्जनीत्येताः श्रुतयो मध्यमाश्रिताः ॥ क्षिती रक्ता च सन्दीपन्यालापिन्यपि पञ्चमे । मदन्ती रोहिणी रम्येत्येता धैवतसंश्रयाः ॥ उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती ॥” अन्यत् विशेषविवरणन्तु तत्तच्छब्दे द्रष्टव्यम् ॥ * ॥ गाने तु रागा रागिण्यश्च प्रयोक्तव्याः अतस्तेषां [] नामानि कथ्यन्ते । यथा, सङ्गीतदर्पणे स्वरा- ध्याये । १२--१९ । पार्व्वत्युवाच । “के रागाः काश्च रागिण्यः का वेला ऋतवश्च के । किं रूपं कथमुद्धारो वद देव ! प्रसादतः ॥” ईश्वर उवाच । “श्रीरागोऽथ वसन्तश्च भैरवः पञ्चमस्तथा । मेघरागो बृहन्नाटः षडेते पुरुषाह्वयाः ॥” इति षट् रागाः ॥ अथ रागिण्यः । “मालश्री त्रिवणी गौरी केदारी मधुमाधवी । ततः पाहाडिका ज्ञेया श्रीरागस्य वराङ्गनाः ॥ देशी देवगिरी चैव वराटी तोडिका तथा । ललिता चाथ हिन्दोली वसन्तस्य वराङ्गनाः ॥ भैरवी गुर्ज्जरी रामकिरी गुणकिरी तथा । वाङ्गाली सैन्धवी चैव भैरवस्य वराङ्गनाः ॥ विभाषा चाथ भूपाली कर्णाटी वडहंसिका । मालवी पटमञ्जर्य्या सहैताः पञ्चमाङ्गनाः ॥ मल्लारी सौरटी चैव सावेरी कौशिकी तथा । गान्धारी हरशृङ्गारा मेघरागस्य योषितः ॥ कामोदी चैव कल्याणी आभिरी नाटिका तथा । सारङ्गी नट्टहम्बीरा नट्टनारायणाङ्गनाः ॥” इति षट्त्रिंशत् रागिण्यः ॥ रागरागिणीनां विशेषविवरणन्तु तत्तच्छब्दे गानस्य अन्यद्विवरणं गीतशब्दे च दर्शनीयम् ॥) ध्वनिः । इति धरणी ॥
📄 मूल मुद्रित पृष्ठ (2-323-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।