गुडूची, स्त्री, लताविशेषः । गुलञ्च इति भाषा ॥ तत्पर्य्यायः । वत्सादनी २ छिन्नरुहा ३ तन्त्रिका ४ अमृता ५ जीवन्तिका ६ सोम- वल्ली ७ विशल्या ८ मधुपर्णी ९ । इत्यमरः ॥ गुडची १० । इति भरतः ॥ कुण्डली ११ चक्र- लक्षणा १२ । इति रत्नमाला ॥ अमृतवल्ली १३ ज्वरारिः १४ श्यामा १५ वरा १६ सुरकृता १७ मधुपर्णिका १८ छिन्नोद्भवा १९ अमृतलता २० रसायनी २१ छिन्ना २२ सोमलतिका २३ भिषक्प्रिया २४ कुण्डलिनी २५ वयःस्था २६ नागकुमारिका २७ छद्मिका २८ चन्द्रहासा २९ । इति राजनिर्घण्टः ॥ अमृतवल्लरी ३० सुधा ३१ जीवन्ती ३२ सोमा ३३ चक्रलक्षणिका ३४ वयस्या ३५ मण्डली ३६ देवनिर्म्मिता ३७ । अस्या गुणाः । कटुत्वम् । स्वादुपाकित्वम् । रसायनत्वम् । संग्राहित्वम् । कषायत्वम् । उष्ण- त्वम् । लघुत्वम् । बल्यत्वम् । अग्निदीपनत्वम् । दोषत्रयामतृड्दाहमेहकासपाण्डुकामलाकुष्ठ- वातास्रज्वरकृमिवमिनाशित्वञ्च । इति भाव- प्रकाशः ॥ गुरुत्वम् । वीर्य्यदातृत्वम् । भ्रम- नाशित्वञ्च । इति राजनिर्घण्टः ॥ रक्तपित्त- नाशित्वम् । इति राजवल्लभः ॥ अस्याः पत्रस्य गुणाः । आग्नेयत्वम् । सर्व्वज्वरहरत्वम् । लघु- त्वम् । कषायत्वम् । कटुत्वम् । स्वादुपाकित्वम् । रसायनत्वम् । बलकारित्वम् । उष्णत्वम् । संग्राहित्वम् । त्रिदोषतृष्णादाहप्रमेहवाता- सृक्कामलाकुष्ठपाण्डुतानाशित्वञ्च । इति भाव- प्रकाशः ॥ घृतयुक्ताया वातनाशित्वम् । गुड- युक्तायाः पित्तनाशित्वम् । मधुयुक्तायाः कफ- नाशित्वम् । एरण्डतैलयुक्ताया उग्रवातास्र- नाशित्वम् । शुण्ठीयुक्ताया आमवातनाशि- त्वम् । इति राजवल्लभः ॥ * ॥ [] अस्या उत्पत्तिर्यथा, -- “अथ लङ्केश्वरो नाम्ना रावणो राक्षसाधिपः । रामपत्नीं बलात् सीतां जहार मदनातुरः ॥ ततस्तं बलवान् रामो रिपुं जायापहारिणम् । बलं वानरसैन्येन जघान रणमूर्द्धनि ॥ हते तस्मिन् सुरारातौ रावणे बलगर्व्विते । देवराजः सहस्राक्षः परितुष्टोऽपिं राघवे ॥ तत्र ये वानराः केचिद्राक्षसैर्निहता रणे । तानिन्द्रो जीवयामास संसिच्यामृतवृष्टिभिः ॥ ततो येषु च देशेषु कपिगात्रात् परिच्युताः । पीयूषबिन्दवः पेतुस्तेभ्यो जाता गुडूचिका ॥” इति भावप्रकाशः ॥ (गुडूचीघृतम् । यथा, -- “गुडूचीक्वाथकल्काभ्यां सपयस्कं घृतं शृतम् । हन्ति वातं तथारक्तकुष्ठं जयति दुस्तरम् ॥” इति वैद्यकचक्रपाणिसंग्रहे वातरक्ताधिकारे ॥)
📄 मूल मुद्रित पृष्ठ (2-335-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।