🕉️ 21 November 2026, Saturday · 08:22:11 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

गुप
gupa
🟠 शब्दसागर🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
गुप १ वि॰ [हिं॰ घुप] दे॰ घुप ।
गुप २ संज्ञा पुं॰ [अनु॰] सुनसान होने का भाव । सन्नाटा ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
गुप गोपने सक० आत्म० सेत् कुत्सने स्वार्थे सन् अनिट् कुत्सनमिह कुत्सापूर्वकनिवृत्तिस्तत्र अक० निन्दनञ्च तत्र सक० । पापात् जुगुप्ससते अगुप्सीष्ट । जुगुपसां [] बभूव आस चक्रे जुगुप्सितः । गोपने गोपते अगो पिष्ट जुगुपे । “आद्विधानैर्गुपितो वार्हतैः मोक्षरक्षितः ऋ० १० । ८५ । १ । “तथा राष्ट्रं गुपितं क्षत्रियस्य” १० । १०९ । ३ । तत्र निन्दार्थत्वे “जुगुप्सेरन्न चाप्ये- नम् संवसेयुश्च सर्वशः” मनुः “यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते” भा० व० ३११ अ० ।
गुप रक्षणे भ्वा० सक० पर० वेट् स्वार्थे सार्वधातुके नित्य- मायः आर्द्धधातुके वा । गोपायति अगोपायीत् अगोपीत् अगौप्सीत् । गोपायाम्--बभूव आस चकार जुगोप । गोपायितः गुप्तः । गुप्तिः गोपायनम् गोपनम् । “जु गोपात्मानमत्रस्नुः” रघुः । “आत्मानं सततं गोपायीत” श्रुतिः “जुगोप गोरूपधरामिवोर्वीम्” रपुः । “नैनं गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया” भा० भी० ३८६३ श्लो० “अगोपिष्टां पुरोलङ्कामगौप्तां रक्षसां बलम्” भट्टिः । “यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा” मनुः ।
गुप व्याकुलत्वे दिवा० अक० पर० सेट् इरित् । गुप्यति अगुपत् अगोपीत् जुगोप । गुपितः ।
गुप भासने चुरा० उभ० अक० सेट् । गोपयति ते अजु- गुपत् त । गोपयाम् बभूव आस चकार चक्रे । चतुर्ण्णा गुपधातूनामुदाहरण कविरहस्ये यथा “गोपायति क्षिति मिमां चतुरब्धिसीमां पापाज्जुगुप्सत उदारमतिः स- दैव । वित्तं न गोपयति यस्तु बणीयकेभ्यो धीरो न गु- प्यति महत्यपि कार्य्यजाते” ।
📄 मूल मुद्रित पृष्ठ (2612-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
गुप, ऊ रक्षे । इति कविकल्पद्रुमः । (भ्वां-परं- सकं-वेट् ।) आयन्तत्वादुभयपदमिति वोपदेवः । गोपायति गोपायते । अरे तु आयस्याप्राप्ति- पक्षे परस्मैपदमेव । अगोपीत् । जुगोप गोरूप- धरामिवोर्व्वीमिति रघुः ॥ ऊ, गोपिष्यति गीप्स्यति । इति दुर्गादासः ॥
गुप, क भासि । इति कविकल्पद्रुमः ॥ (चुरां-परं- अकं-सेट् ।) क, गोपयति । भासि दीप्तौ । इति दुर्गादासः ॥
गुप, ङ गोपनकुत्सयोः । इति कविकल्पद्रुमः ॥ (भ्वां आत्मं-सकं-सेट् ।) गोपनमपह्नवः । ङ, कङ्कणझनत्कारञ्च किं गोपसे । अत्र त्यादयो न स्युरिति रमानाथः । कुत्सा । निन्दा । सा जुगुप्सां प्रचक्रेऽसून् । इति भट्टिः । इति दुर्गा-दासः ॥
गुप, य इर् व्याकुलत्वे । इति कविकल्पद्रुमः ॥ (दिवां-परं-अकं सकञ्च-सेट् ।) व्याकुलत्वं व्याकुलीभावस्तत्करणञ्च । य, धीरो न गुप्यति महत्यपि कार्य्यजाते । इति हलायुधः । गुप्यति गा वृष्टिः । आकुलीकरोतीत्यर्थः । इति चतु- र्भुजः । इर्, अगुपत् अगोपीत् । अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥
📄 मूल मुद्रित पृष्ठ (2-339-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें