गृञ्जनं, क्ली, (गृञ्ज्यते अभक्ष्यत्वेन कथ्यते प्राण- नाशकत्वादिति । गृजि ध्वनौ + कर्म्मणि ल्युट् ।) विषदिग्धपशोर्म्मांसम् । इति मेदिनी । ने । ५८ ॥ (गृञ्ज्यते रोगनाशकतया भक्ष्यत्वेन कथ्यते इति ।) मूलविशेषः । सलगम इति ख्यातः । तत्पर्य्यायः । शिखिमूलम् २ यवनेष्टम् ३ वर्त्तु- लम् ४ ग्रन्थिमूलम् ५ शिखाकन्दम् ६ कन्दम् ७ डिण्डीरमोदकम् ८ । अस्य गुणाः । कटुत्वम् । उष्णत्वम् । कफवातरोगगुल्मनाशित्वम् । रुच्य- त्वम् । दीपनत्वम् । हृद्यत्वम् । दुर्गन्धत्वञ्च । इति राजनिर्घण्टः ॥
गृञ्जनः, पुं, (गृञ्ज्यते अभक्ष्यत्वेन कथ्यते इति । गृजि + ल्युट् ।) रसोनकः । रसुन् इति भाषा । इति मेदिनी । ने । ५८ ॥ रक्तलशुनः । इति राजनिर्घण्टः ॥ (अस्य अभक्षणीयत्वमुक्तं यथा, मनौ । ५ । १९--२० । “छत्राकं विड्वराहञ्च लशुनं ग्रामकुक्कुटम् । पलाण्डुं गृञ्जनञ्चैव मत्या जग्ध्वा पतेद्द्विजः ॥ अमत्यैतानि षड्जग्ध्वा कृच्छ्रं सान्तपनञ्चरेत् । यतिचान्द्रायणं वापि शेषेषूपवसेदहः ॥”)
📄 मूल मुद्रित पृष्ठ (2-348-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।