वर्त्तुलं, त्रि, (वर्त्तते इति । वृत् + बाहुलकात् उलच् ।) गोलवस्तु । तत्पर्य्यायः । निस्त- लम् २ वृत्तम् ३ । इत्यमरः । ३ । १ । ६९ ॥ [] मण्डलायितम् ४ । इति शब्दरत्नावली ॥ * ॥ (यथा, भागवते । ५ । १६ । ५ । “यो वा अयं द्वीपः कुवलयकमलकोशाभ्यन्तर- नियुतयोजनविशालः समवर्त्तुलो यथा पुष्कर- पत्रम् ॥”) सम्पूर्णगर्भवृत्तानि यथा, -- “सम्पूर्णगर्भवृत्तानि मुखपद्मेन्दुदर्पणाः । चक्रावहट्टतिलकमृदङ्गपुटशायकाः ॥ आवर्त्तः कमठो लूतागृहं छत्रमपूपकम् । आलबालमहीजालचर्म्मकं शाणकादयः ॥” * ॥ वृत्तानि यथा, -- “वृत्तानि बाहुनारङ्गस्कन्धधम्मिल्लमोदकाः । रथाङ्गलावकककुत्कुम्भिकुम्भाण्डकादयः ॥ कर्णपाशभुजापाशाकृष्टचापघटाननम् । मुद्रिकापरिखायोगपट्टहारस्रगादयः ॥” इति कविकल्पलतायाम् २ श्लेषस्तवके ३ कुसु- मम् ॥
वर्त्तुलं, क्ली, गृञ्जनम् । इति राजनिर्घण्टः ॥
वर्त्तुलः, पुं, कलायविशेषः । वाटुला । इति भाषा । यथा, -- “कलायस्य त्रयो भेदा स्त्रिपुटो वर्त्तुलोऽङ्कटी ।” इति शब्दमाला ॥
📄 मूल मुद्रित पृष्ठ (4-290-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।