चम्पा, स्त्री, (चम्पा नदी विद्यतेऽस्यामिति । “अर्श आदिभ्योऽच् ।” ५ । २ । १२७ । इत्यच् । यद्वा, चम्पेन राज्ञो हरिश्चन्द्रस्य प्रपौत्त्रेण निर्म्मिता या पुरी । यदुक्तं भागवते । ९ । ८ । १ । “हरितो रोहितसुतश्चम्पस्तस्माद्बिनिर्म्मिता । चम्पा पुरी…॥”) कर्णपुरी । अधुना भागलपुर इति ख्याता । तत्पर्य्यांयः । मालिनी २ लोमपादपूः ३ कर्णपूः ४ । इति हेमचन्द्रः । ४ । ४२ ॥ चम्पावती ५ चम्पा- पुरी ६ । इति शब्दरत्नावली ॥ (इयन्तु अङ्ग- देशान्तर्गता । यदुक्तं हेमचन्द्रेण । ४ । २३ । “वङ्गास्तु हरिकेलीया अङ्गाश्चम्पोपलक्षिताः ॥” तथा च महाभारते । १२ । ५ । ६ -- ७ । “प्रीत्या ददौ स कर्णाय मालिनीं नगरीमथ । अङ्गेषु नरशार्द्दूल ! स राजासीत् सपत्नजित् ॥ पालयामास चम्पाञ्च कर्णः परबलार्द्दनः । दुर्य्योधनस्यानुमते तवापि विदितं तथा ॥” इयमेव पुरा राज्ञो लोमपादस्य राजधानी आसीत् । इति रामायणम् ॥ अङ्गदेशस्थनदी- विशेषः ॥)
📄 मूल मुद्रित पृष्ठ (2-434-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।