छात्रं, क्ली, वरटीच्छत्रसम्भवं मधु । तस्य गुणाः । श्वित्रक्रिमिरोगरक्तपित्तनाशित्वम् । गुरुत्वञ्च । इति राजवल्लभः ॥ (“वरटाः कपिलाः पीताः प्रायो हिमवतो वने । कुर्व्वन्ति छत्रकाकारं तज्जं छात्रं मधु स्मृतम् ॥” छात्रं कपिलपीतं स्यात् पिच्छिलं शीतलं गुरु । स्वादुपाकं क्रिमिश्वित्ररक्तपित्तप्रमेहजित् । भ्रमतृण्मोहविषहृत् तर्पणञ्च गुणाधिकम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे ॥)
छा(त्त्र)त्रः, पुं, (छत्रं गुरोर्दोषाणामावरणं तच्छील- मस्येति । “छत्रादिभ्यो णः ।” ४ । ४ । ६२ । इति णः ।) शिष्यः । इत्यमरः । २ । ७ । ११ ॥ (यथा, राजतरङ्गिण्याम् । ६ । ८७ । “भूभुजा दानशौण्डेन पैत्रिके स्थण्डिले कृतः । छात्त्राणामार्य्यदेश्यानां तेन विद्यार्थिनां मठः ॥”)
📄 मूल मुद्रित पृष्ठ (2-489-c) छा(त्त्र)त्रः, पुं, (छत्रं गुरोर्दोषाणामावरणं तच्छील- मस्येति । “छत्रादिभ्यो णः ।” ४ । ४ । ६२ । इति णः ।) शिष्यः । इत्यमरः । २ । ७ । ११ ॥ (यथा, राजतरङ्गिण्याम् । ६ । ८७ । “भूभुजा दानशौण्डेन पैत्रिके स्थण्डिले कृतः । छात्त्राणामार्य्यदेश्यानां तेन विद्यार्थिनां मठः ॥”)
📄 मूल मुद्रित पृष्ठ (2-489-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।