जनार्द्दनः, पुं, विष्णुः । इत्यमरः । १ । १ । १९ ॥ तन्नामव्युत्पत्तिर्यथा । “समुद्रान्तवासिनो जन- नाम्नोऽसुरान् अर्द्दितवान् जनार्द्दनः । अर्द्दञ वघे अर्द्दक्च नन्दादित्वादनः । किंवा जनै- र्लोकैरर्द्द्यते याच्यते पुरुषार्थानसौ जनार्द्दनः । अर्द्द यातनागतियाचने कर्म्मणि अनट् । किंवा जननं जनः भावे घञ् । जनं जन्म अर्द्दयति हन्ति भक्तस्य मुक्तिदत्वादिति जनार्द्दनः । किंवा जनान् लोकान् अर्द्दति हररूपेण संहारकत्वादिति जनार्द्दनः । किंवा जनयति उत्पादयति लोकान् ब्रह्मरूपेण सृष्टिकर्त्तृत्वा- दिति जनः जनेर्ञ्यन्तात् पचाद्यन् । अर्द्दति हन्ति लोकान् हररूपेण संहारकारित्वादिति अर्द्दनः जनश्चासौ अर्द्दनश्चेति जनार्द्दनः । किंवा जनान् लोकान् अर्द्दति गच्छति प्राप्नोति रक्षणार्थं पालकत्वादिति जनार्द्दनः ।” इत्यमर- टीकायां भरतः ॥ * ॥ गयायां तस्य हस्ते जीवितस्य पिण्डदानविधिर्यथा, -- “जनार्द्दनो भस्मकूटे तस्य हस्ते तु पिण्डदः । आत्मनोऽप्यथवान्येषां सव्येनैव तिलैर्विना ॥ [] जीवता दधिसंमिश्रं सर्व्वे ते विष्णुलोकगाः । यस्तु पिण्डो मया दत्तस्तव हस्ते जनार्द्दन ! ॥ यमुद्दिश्य त्वया देयस्तस्मिन् पिण्डो मृते प्रभो ! । एष पिण्डो मया दत्तस्तव हस्ते जनार्द्दन ! ॥ अन्तकाले गते मह्यं त्वया देयो गयाशिरे । जनार्द्दन ! नमस्तुभ्यं नमस्ते पितृमोक्षद ! ॥ पितृपात्र नमस्तुभ्यं नमस्ते पितृरूपिणे । गयायां पितृरूपेण स्वयमेव जनार्द्दनः ॥ तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते च ऋणत्रयात् । नमस्ते पुण्डरीकाक्ष ! ऋणत्रयविमोचन ! ॥ लक्ष्मीकान्त ! नमस्तेऽस्तु पितृमोक्षप्रदो भव । वामजानु च सम्पात्य नत्वा भीमो जनार्द्दनम् ॥ श्राद्धं सपिण्डकं कृत्वा भ्रातृभिर्ब्रह्मलोकभाक् । पितृभिः सह धर्म्मात्मा कुलानाञ्च शतेन च ॥ शिलायां व्यक्तरूपेण व्यक्ताव्यक्तात्मना स्थितः । लक्ष्मीशो विबुधैः सार्द्धं तस्माद्देवमयी शिला ॥” इति श्रीवायुपुराणे श्वेतवाराहकल्पे गया- माहात्म्ये ४ अध्यायः ॥ * ॥ शालग्रामशिला- विशेषः । तल्लक्षणं यथा, -- “सशङ्खचक्राब्जगदं जनार्द्दनमिहो नमः । उपेन्द्रं गदिनं साविपद्मशङ्ख ! नमोऽस्तु ते ॥” इति पाद्मे पातालखण्डे १० अध्यायः ॥ “आरोग्यं भास्करादिच्छेद्धनमिच्छेद्धुताशनात् । ज्ञानञ्च शङ्करादिच्छेन्मुक्तिमिच्छेज्जनार्द्दनात् ॥” इति कर्म्मलोचनम् ॥
📄 मूल मुद्रित पृष्ठ (2-507-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।