🕉️ 20 November 2026, Friday · 12:00:46 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

जलौका
jalaukā
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
जलौका संज्ञा स्त्री॰ [सं॰ जलौकस्] जोंक ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
जलौका f. id., MBh. xii, 3306; Suśr. i, 13; ii, 3; SkandaP.
📄 मूल मुद्रित पृष्ठ (416,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
जलो(लौ)का स्त्री जलमोकोऽस्य पृषो० । (जोंक) १ जलस्थे सरीसृपभेदे भरतोऽमुं द्विधा पपाठ ।
📄 मूल मुद्रित पृष्ठ (3078,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
जलौकाः, [स्] स्त्री, (जलमेव ओको वसतिस्थानं यस्याः ।) जलौका । इति भरतः ॥ (यदुक्तम् । “गृह्णाति साधुरपरस्य गुणं न दोषं दोषान्वितो गुणिगुणं परिहाय दोषम् । बालस्तनात् पिबति दुग्धमसृग्विहाय त्यक्त्रा पयो रुधिरमेव न किं जलौकाः ॥” जलवासिनि, त्रि । यथा, महाभारते । १३ । ५० । १० । “जलोकसां स सत्त्वानां बभूव प्रियदर्शनः ॥” विवरणमस्या यथा, -- “नृपाढ्य-बाल-स्थविर-भीरु-दुर्ब्बल-नारीसुकु- माराणामनुग्रहार्थं परमसुकुमारोऽयं शोणि- तावसेचनोपायोऽभिहितो जलाकसः । तत्र वातपित्तकफ-दुष्ट-शोणितं यथासङ्ख्यं शृङ्ग- जलौकालावुभिरवसेचयेत् स्निग्धशीतरूक्षत्वात् सर्व्वाणि सर्व्वर्व्वा ॥” “उष्णं समधुरं स्निग्धं गवा शृङ्गं प्रकीर्त्तितम् । तस्माद्वातोपसृष्टे तु हितं तदवसेचने ॥ शीताधिवासा मधुरा जलौका वारिसम्भवा । [] तस्मात् पित्तोपसृष्टे तु हिता सा त्ववसेचने ॥ अलावुकटुकं रूक्षं तीक्ष्णञ्च परिकीर्त्तितम् । तस्मात् श्लेष्मोपसृष्टे तु हितं तदवसेचने ॥” “अथ जलायुका वक्ष्यन्ते । जलमासामायुरिति जलायुका जलमासामोक इति जलौकसः । ता द्वादश, तासां सविषाः षट् तावत्य एव निर्व्विषाः । तत्र सविषाः कृष्णा कर्व्वुरा अल- गर्द्दा इन्द्रायुधा सामुद्रिका गोचन्दना चेति । तास्वञ्जनचूर्णवर्णा पृथुशिराः कृष्णा । वर्म्मि- मत्स्यवदायता छिन्नोन्नतकुक्षिः कुर्व्वुरा । रोमशा महापार्श्वा कृष्णमुख्यलगर्द्दा । इन्द्रा- युधवदूर्द्ध्वराजिभिश्चित्रा इन्द्रायुधा । ईषदसित- पीतिका विचित्रपुष्पाकृतिचित्रा सामुद्रिका । गोवृषणवदधोभागे द्बिधाभूताकृतिरणुमुखी गोचन्दनेति । ताभिर्द्दष्टे पुरुषे दंशे श्वयथु- रतिमात्रं कण्डूर्मूर्च्छा ज्वरोदाहश्छर्द्दिर्म्मदः सदनमिति लिङ्गानि भवन्ति । तत्र महागदः पानालेपननस्यकर्म्मादिषूपयोज्यः । इन्द्रायुधा- दष्टमसाध्यमित्येताः सविषाः सचिकित्सिता व्याख्याताः । अथ निर्व्विषाः । कपिला पिङ्गला शङ्कुमुखी मूषिका पुण्डरीकमुखी सावरिका चेति । तत्र मनःशिलारञ्जिताभ्यामिव पार्श्वाभ्यां पृष्ठे स्निग्धमुद्गवर्णा कपिला । किञ्चिद्रक्ता वृत्तकाया पिङ्गाशुगा च पिङ्गला । यकृद्बर्णा शीघ्रपायिनी दीर्घतीक्ष्णमुखी शङ्कुमुखी मूषिकाकृतिवर्णा- ऽनिष्टगन्धा च मूषिका । मुद्गवर्णा पुण्डरीक- तुल्यवक्त्रा पुण्डरीकमुखी । स्निग्धा पद्मपत्रवर्णा- ष्टादशाङ्गुलप्रमाणा सावरिका सा च पश्वर्थे । इत्येता अविषा व्याख्याताः । तासां यवन- पाण्ड्यसह्यपौतनादीनि क्षेत्राणि । तेषु महा- शरीरा बलवत्यः शीघ्रपायिन्यो महाशना निर्व्विषाश्च विशेषेण भवन्ति । तत्र सविषमत्स्य- कीटदर्दुरमूत्रपुरीषकोषजाताः कलुषेष्वम्भःसु च सविषाः । पद्मोत्पलनलिनकुमुदसौगन्धिक- कुवलयपुण्डरीकशैवालकोथजाता विमलेषु अम्भःसु च निर्व्विषाः ॥” “क्षेत्रेषु विचरन्त्येताः सलिलेषु सुगन्धिषु । न च सङ्कीर्णचारिण्यो न च पङ्केशयाः सुखाः ॥” “अथैनां नवे महति घटे सरस्तडागोदकपङ्क- मावाप्य निदध्यात् । भक्षार्थे चासामुपहरे- च्छैबलं वल्लूरमौदकांश्च कन्दांश्चूर्णीकृत्य शय्यार्थं तृणमौदकानि च पत्राणि । द्ब्यहात्त्र्यहा- च्चान्यज्जलं भक्ष्यं च दद्यात् सप्तरात्रात् सप्त- रात्राच्च घटमन्यं संक्रामयेत् ॥” “स्थूलमध्याः परिक्लिष्टाः पृथ्य्वो मन्दविचेष्टिताः । अग्राहिण्योऽल्पपायिन्यः सविषाश्च न पूजिताः ॥ अथ जलौकोऽवसेकसाध्यव्याधितमुपवेश्य संवेश्य वा विरुक्ष्य चास्य तमवकाशं मृद्गोमयचूर्णैर्यद्य- रुजः स्यात् । गृहीताश्च ताः सर्षपरजनी- कल्कोदकप्रदिग्धगात्रीः सलिलसरकमध्ये मुहूर्त्त- स्थिता विगतक्लमा ज्ञात्वा ताभी रोगं ग्राह- [] येत् । सूक्ष्मशुक्लार्द्रपिचुप्लोतावच्छन्नां कृत्वा मुखमपावृणुयादगृह
जलौका, स्त्री, (जलमेव ओकं वसतिस्थानं यस्याः ।) जलजन्तुविशेषः । जोँक इति भाषा । तत्पर्य्यायः । रक्तपा २ जलौकसः ३ इत्य- मरः । १ । १० । २२ ॥ जलूका ४ जलाका ५ जलौकाः ६ जलोरगी ७ जलायुका ८ जलिका ९ जलासुका १० जलजन्तुका ११ वेणी १२ जला- लोका १३ जलौकसः १४ जलौकसी १५ । इति भरतः ॥ जलौकसम् १६ जलौकसा १७ । इति रायमुकुटः ॥ रक्तपायिनी १८ रक्तसन्द- शिका १९ तीक्ष्णा २० वमनी २१ जल- जीवनी २२ । इति राजनिर्घण्टः ॥ रक्तपाता २३ वेधिनी २४ जलसर्पिणी २५ जलसूचिः २६ जलाटनी २७ जलाका २८ जलपटात्मिका २९ जलिका ३० जलालुका ३१ । इति शब्दरत्ना- वली ॥ (यथा सुश्रुते शारीरस्थानेऽष्टमेऽध्याये । “सिरा-विषाणतुम्बैस्तु जलौकाभिः पदैस्तथा । अवगाढं यथापूर्व्वं निर्हरेद्दुष्टशोणितम् ॥” अस्या विवरणमन्यत् सविस्तरं जलौकःशब्दे व्याख्यातम् ॥)
📄 मूल मुद्रित पृष्ठ (2-527-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "जलौकाः" आता है (8)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें