ट, टकारः । सं व्यञ्जनैकादशवर्णः । टवर्गप्रथम- वर्णश्च । अस्योच्चारणस्थानं मूर्द्धा । इति व्याक- रणम् ॥ (अस्योच्चारणे मूर्द्धस्थानेन जिह्वामध्यस्य स्पर्शः आभ्यन्तरप्रयत्नः । मातृकान्यासेऽस्य दक्षिणस्फिचि न्यास्यत्वम् । वङ्गीयवर्णमाला- याम्) तस्य लेखनप्रकारो यथा, -- “ऊर्द्धाधःक्रमतो रेखा कुण्डलीरूपतस्त्वधः । तिष्ठन्ति तासु नित्यासु कुवेरयमवायवः ॥ मात्रा कोणगता चोर्द्ध्वा तत ऊर्द्ध्वगता तु सा । या नित्या परमा शक्तिश्चतुर्व्वर्गप्रदायिनी ॥ ध्यानमस्य प्रवक्ष्यामि शृणुष्व वरवर्णिनि ! । मालतीपुष्पवर्णाभां पूर्णचन्द्रनिभेक्षणाम् ॥ दशबाहुसमायुक्तां सर्व्वालङ्कारसंयुताम् । परमोक्षप्रदां नित्यां सदा स्मेरमुखीं पराम् ॥ एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशघा जपेत् ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य स्वरूपं यथा, -- “टकारं चञ्चलापाङ्गि ! स्वयं परमकुण्डली । कोटिविद्युल्लताकारं पञ्चदेवमयं सदा ॥ [] पञ्चप्राणयुतं वर्णं गुणत्रयसमन्वितम् । त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा ॥” इति कामधेनुतन्त्रम् ॥ तस्य २७ सप्तविंशतिनामानि यथा, -- “टष्टङ्कारः कपाली च सोमवाः खेचरी ध्वनिः । मुकुन्दो विनदा पृथ्वी वैष्णवी वारुणी नवः ॥ दक्षाङ्गकार्द्धचन्द्रश्च जरा भूतिः पुनर्भवः । बृहस्पतिर्धनुश्चित्रा प्रमोदा विमला कटिः ॥ राजा गिरिर्म्महाधनुर्घ्राणात्मा सुमुखो मरुत् ॥” इति नानातन्त्रशास्त्रम् ॥
टं, क्ली, (टल् + डः ।) करङ्कः । इति विश्वः ॥
टः, पुं, (टल् + डः ।) वामनः । पादः । निस्वनः । इति मेदिनी । टे, १ ॥
📄 मूल मुद्रित पृष्ठ (2-571-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।