तक्र न० तन्च--रक् न्यङ्क्वा० कुत्वम् । चतुर्थांशजलयोगेन दधिमन्थनजाते दधिविकारभेदे (घोल) अमरः । तद्भेदा- दिकं भावप्रका० उक्तं यथा “घोलन्तु मथितं तक्रमुदश्विच्छच्छिकापि च । ससरं निर्जलं घोलं मथितन्त्वसरोदकम् । तक्रं पादजलं प्रोक्त- मुदश्विदर्द्ध्ववारिकम् । छच्छिका सारहीना स्यात् स्वच्छा प्रचुरवारिका । घोलं तु शर्करायुक्तं गुणैर्ज्ञेयं रसाल- वत्” । मथितं (महुया) इति लोके । छच्छिका (छाच्छ) इति लोके । “वातपित्तहरं ह्लादि मथितं कफपित्तनुत् । तक्रं ग्राहि कषायाम्लं स्वादुपाकरसं लघु । वीर्य्योणं दीपनं वृष्यं प्रीणनं वातनाशनम् । ग्रहण्यादिमतां पथ्यं भवेत्सङ्ग्राहि लाघवात् । किञ्च स्वादुविपा- कित्वान्नच पित्तप्रकोपणम् । कषायं दीपनं वृष्यं प्रीणनं वातनाशनम् । कषायोष्णविपाकित्वाद्रौक्ष्याच्चापि कफापहम् । न तक्रसेवी व्यथते कदाचित् न तक्रदग्धाः प्रभवन्ति रोगाः । यथा सुराणाममृतं सुखाय तथा नराणां भुवि तक्रमाहुः । उदश्चित्कफकृद्बल्यमामघ्नं परमं मतम् । छच्छिका शीतला लघ्वी पित्तश्रमतृषा- हरी । बातनुत् कफकृत्त्सा तु दीपनी लवणान्विता । अथोद्धृतघृतस्तोकोद्धृतानुद्धृतघृतानां तक्राणां गुणाः “समुद्धृतघृतं तक्रं पथ्यं लघु विशेषतः । स्तोकोद्धृत- घृतं तस्माद्गुरु वृष्यं कफापहम् । अनुद्धृतघृतं सान्द्रं गुरु पुष्टिकफप्रदम्” य दोषविशेषे व्याधिविशेषे तक्रविशेषाः । वातेऽम्ले शस्यते तक्रं शुण्ठीसैन्धवसंयुतम् । पित्ते [] स्वादुसितायुक्तं सव्योषमधिके कफे । हिङ्गुजीरयुतं घोलं सैन्धवेन च संयुतम् । भवेदतीव वातघ्नमर्शो- ऽतीसारहृत्परम् । रुचिदं पुष्टिदं बल्यं वस्तिशूलविना- शनम् । मूत्रकृच्छ्रे तु सगुडं पाण्डुरोगे सचित्रकम्” । अथामपक्कतक्रगुणाः “तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति च । पीनस श्वासकासादौ पक्वमेव प्रशस्यते” । अथ तक्रसेवननिमित्तानि । “शीतकालेऽग्निमान्द्ये च तथा वातामयेषु च । अरुचौ स्रोतसां रोधे तक्रं स्यादमृतोपमम् । तत्तु हन्ति गरच्छर्दिप्रसेकविषमज्वरान् । पाण्डुमेदोग्रहण्यर्शो मूत्र- ग्रहभगन्दरान् । मेहं गुल्ममतीसारं शूलप्लीहोदरा- रुचीः । श्वित्रकोष्ठगतव्याधीन् कुष्ठशोथतृषाकृमीन्” । तक्रस्याविषयाः “नैव तक्रं क्षते दद्यात् नोष्णकाले न दुर्बले । न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपित्तजे” । अथ गव्यादीनां विशिष्टाः गुणाः “यान्युक्तानि दध- न्यष्टौ तद्गुणं तक्रमादिशेत्” । भावप्र० । अधिकं कृतान्नशब्दे २१८५ पृ० दृश्यम् । “मन्यनादि- पृथग्भूतस्नेहमर्धोदकं तु यत् । नातिसान्द्रद्रवं तक्रं स्वाद्वम्लं तुवरं रसे” सुश्रु० । “सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च । दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च” मनुः । “तक्रनिस्रावबहुलं दधिमण्डार्द्र- मृत्तिकम्” हरिवं० ६१ अ० ।
📄 मूल मुद्रित पृष्ठ (3201-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।