🕉️ 20 November 2026, Friday · 05:39:30 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

त्रेता
tretā
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
इन तीनों अग्नियों का समूह (2.7.22)
प्राप्ति (3.3.76) उन्नति · पाना
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
त्रेता संज्ञा पुं॰ [सं॰]
१. चार युगों में से दूसरा युग जो १२९६०० वर्ष का होता है । विशेष—पुराणानुसार इस युग का जन्म अथवा आरंभ कार्तिक शुक्ला नवमी को होता है । इस युग में पुराण के तीन पाद और पाप का एक पाद होता है और सब लोग धर्मपरायण होते हैं । पृराणानुसार इस युग में मनुष्यों की आयु दस हजार वर्ष तथा मनु के अनुसार तीन सौ वर्ष होती है । परशुराम और रघुवंशी राम के अवतार का इसी युग में होना माना जाता है । मुहा॰—त्रेता के बीजों में मिलना = सत्यानाश होना । नष्ट होना । (एक शाप) ।
२. दक्षिण, गर्हपत्य और आहवनीय, ये तीनों प्रकार की अग्नियाँ ।
३. जुए में तीन कोड़ियों का अथवा पासे के उस भाग का चित पड़ना जिसपर तीन बिंदियाँ हों ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
त्रेता f. (fr. त्रय) and triad, triplet, MBh. xiv, 2759
the 3 sacred fires (= अग्नि-), v, 1559; Hariv. 1410
trey (throw at dice or the side of a die marked with 3 spots), VS. xxx, 18; TS. iv; Mṛcch. ii, 9
‘age of triads’, the 2nd Yuga (or silver age), AitBr.; MuṇḍUp.; ŚāṅkhŚr.; Mn. &c.
📄 मूल मुद्रित पृष्ठ (462,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
त्रेता 1 A triad, triplet. --2 The three sacred fires taken collectively; Ms. 2. 231; R. 13. 37. --3 A particular throw at dice, a cast of three or trey; त्रेताहृतसर्वस्वः Mk. 2. 8. --4 The second of the four Yugas of the Hindus; see युग.
📄 मूल मुद्रित पृष्ठ (0551-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
त्रेता स्त्री त्रित्वमिता पृषो० । दक्षिणाग्निगार्हपत्याहवनीया- त्मके समुदिते १ अग्नित्रये, सत्ययुगामन्तरवर्त्तिनि युग- भेदे, द्यूतक्रीडासाधनस्याक्षस्य यस्मित् पार्श्वे त्रयोऽङ्का- स्तस्य पार्श्वस्य उत्तानतया ३ पतने, द्यूतविशेषे वराट- कानां मध्ये त्रयाणामुत्तानतया ४ पतने च “त्रेतथा हृतसर्वस्वः” इति मृच्छकटिका । अयशब्दे ३३४ पृ० दृश्यम् “त्रेतायुगमानञ्च दिव्यमानेन ३००० वर्षाः आदौ सन्ध्या ३०० । अन्ते सन्ध्यांशः ३०० मिलिताः ३६०० । वर्षाः मानुषमानेन ३६० गुणिता १२९६००० वर्षाः । यथाह मनुः “चत्वार्य्यहुः सहस्राणि वर्षा- णान्तु कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यां- शश्च तथाविधः । इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि च” । सि० शि० “खखाभ्रदन्तसागरैर्युगाग्नियुग्मभूगुणैः । क्रमेण सूर्य्यवत्सरैः कृतादयोयुगाङ्घ्रयः । स्वसन्ध्यकातदंशकै- र्निजार्क१२ भागसम्मितैः । युताश्च तद्युता युगं रदाब्धयो- ऽयुताहताः” । खखाभ्रदन्तसागरैः ४३२००० अङ्कैस्त्रिभि- र्गुणितैस्तन्मिता वर्षा त्रेतामानं तत्रापि त्रेतादौ सन्ध्या- मानं १०८००० त्रेतामानं १०८०००० वर्षाः । त्रेतान्ते सन्ध्यांशमानम् १०८००० । मिलित्वा १२९६००० वर्षाः त्रेतामानम् । स्पष्टमुक्तं ब्रह्मवै० प्र० ख० “द्वि- षट्लक्षपरिमितं षण्णवतिसहस्रकम् । त्रेतायुगं परि- मितं कालविद्भिः प्रकीर्तितम्” । “दण्डनीत्यां यदा राजा त्रीनंशाननुवर्त्तते । चतुर्थमंश- मुत्सृज्य तदा त्रेता प्रवर्त्तते । अशुभस्य चतुर्थांशस्त्री- नंशाननुवर्त्तते । कृष्टपच्यैव पृथिवी भवन्त्योषधय- स्तथा” । “राजा कृतयुगसृष्टा त्रेताया द्वापरस्य च । युगस्य च चतुर्थस्य राजा भवति कारणम् । कृतस्य [] कारणाद्राजा स्वर्गमत्यन्तमश्नुते । त्रेतायाः कारणा- द्राजा स्वर्गं नात्यन्तमश्रुते” भा० शा० ६९ अ० । तद्धर्माश्च “त्रेतायुगे समायाते धर्मः पादोनतां गतः । अल्प- क्लेशान्विता लोकाः केचित्, केचिद्दयाशयाः । विष्णुध्याग- रता लोका यज्ञदानपरायणाः । वर्णाश्रमाचाररताः सुखिनः सुस्थचेतसः । क्षत्रा भूमिस्पृशः शूद्राः सर्वे ब्राह्मणसेविनः । ब्राह्मणाश्च महात्मानो वेदवेदाङ्गपा- रगाः । प्रतिग्रहनिवृत्ताश्च सत्यसन्धा जितेन्द्रियाः । तपो- व्रतपरा नित्यं दातारो विष्णुसेविनः । कालवर्षीं तडि- त्वांश्च स्त्रियः सर्वाः पतिव्रताः । वसुन्धरा च शस्याढ्या पुत्राश्च पितृसेविनः” इति पाद्ने क्रियायोगसारोक्ताः । “अत्राहाद्या भगवती जीवानां निष्कृतिं यथा । कृते व्यतीते त्रेतायां दृष्ट्वा धर्मव्यतिक्रमम् । वेदोक्तकर्मभि- र्मर्त्या न शक्ताः स्वेष्टसाधने । बहुक्लेशकरं कर्म बैदिकं भूरिसाधनम् । कर्तुं न योग्यामनुजाश्चिन्ताव्याकुलमा- नसाः । त्यक्तुं कर्तुं न चार्हन्ति सदा कातरचेतसः । वेदार्थयुक्तशास्त्राणि स्मृतिरूपाणि भूतले । तदा त्वं प्रकटीकृत्य तपःस्वाध्यायदुर्बलान् । लोकानतारयः पापात् दुःखशोकमयप्रदात् । त्वां विना कोऽस्ति जी- वानां घोरसंसारसागरे । भर्त्ता पाता समुद्धर्त्ता पितृवत् प्रियकृत् प्रभुः” इति श्रीमहानिर्वाणतन्त्रे जीवोद्धारण- हेतये सदाशिवं प्रति जगन्मातुः वाक्यम् । तस्मिन् युगे पुरुषायुषकालश्च त्रिशतवर्षो मनुनोक्तो यथा “चतुष्पात् सकलो धर्मः सत्यञ्चैव कृते युगे । नाधर्मेनागमः कश्चि- न्मनुष्यान् प्रतिवर्त्तते । इतरेष्वागमाद्धर्मः पादशस्त्वव- रोपितः । चौरिकानृपमायाभिर्धर्मश्चापैति पादशः । अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः । कृते त्रेता- दिषु ह्येषामायुर्ह्रसति पादशः । वेदोक्तमायुर्मर्त्या- नामाशिषश्चैव कर्मणाम् । फलन्त्यनुयुगं लोके प्रभा- व
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
त्रेता, स्त्री, (त्रीन् भेदान् एति प्राप्नोतीति । यद्बा, त्रित्वमिता । पृषोदरादित्वात् साधुः । एतन्नि- रुक्तिर्यथा, हरिवंशे । २०५ । ५ । “त्रिधा प्रणीतो ज्वलनो मुनिभिर्व्वेदपारगैः । अतस्त्रेतात्वमापन्नो यदेकस्त्रिविधः कृतः ॥”) दक्षिणाग्निः गार्हपत्यः आहवनीयः एकोक्त्या इदमग्नित्रयम् । इत्यमरः । २ । ७ । २० ॥ (यथा, हरिवंशे । २६ । ४५-४६ । “मथित्वाग्निं त्रिधा कृत्वा अयजत् स नराधिपः । इष्ट्वा यज्ञैर्ब्बहुविधैर्गतस्तेषां सलोकताम् ॥ गन्धर्व्वेभ्यो वरं लब्धा त्रेताग्निं समकारयत् । एकोऽग्निः पूर्व्वमेवासीदैलस्त्रेतामकारयत् ॥”) द्वितीययुगम् । तस्य परिमाणं यथा, -- “त्रिचत्वारिंशल्लक्षेण विंशत्सहस्राधिकेन च । चतुर्युगं परिमितं नरमानक्रमेण च ॥ द्बिषट्लक्षपरिमितं षण्णवतिसहस्रकम् । त्रेतायुगं परिमितं कालविद्भिः प्रकीर्त्तितम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ * ॥ तस्य धर्म्मा यथा, -- “त्रेतायुगे समायाते धर्म्मः पादोनतां गतः । अल्पक्लेशान्विता लोकाः केचित् केचित् दया- शयाः ॥ विष्णुध्यानरता लोका यज्ञदानपरायणाः । वर्णाश्रमाचाररताः सुखिनः सुस्थचेतसः ॥ क्षत्त्रा भूमिस्पृशः शूद्राः सर्व्वे ब्राह्मणसेविनः । ब्राह्मणाश्च महात्मानो वेदवेदाङ्गपारगाः ॥ प्रतिग्रहनिवृत्ताश्च सत्यसन्धा जितेन्द्रियाः । तपोव्रतरता नित्यं दातारो विष्णुसेविनः ॥ [] कालवर्षी तडित्वांश्च स्त्रियः सर्व्वाः पतिव्रताः । वसुन्धरा च शस्याढ्या पुत्त्राश्च पितृसेविनः ॥” इति पाद्मे क्रियायोगसारः ॥
📄 मूल मुद्रित पृष्ठ (2-664-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें