धाना, स्त्री, (धीयते इति । धा + “धापवस्य- ज्यतिभ्यो नः ।” उणां । ३ । ६ । इति नः टाप् च ।) भृष्टयवः । धान्यकम् । (पर्य्याया यथा, “धान्यकं धानकं धान्यं धाना धानेयकन्तथा । कुनटी धेनुकाच्छत्रा कुस्तुम्बुरु वितुन्नकम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) अनिभवः । अङ्कुरः । भिन्नः । चूर्णसक्तवः । इति मेदिनीहेमचन्द्रौ ॥
📄 मूल मुद्रित पृष्ठ (2-792-a) धानाः, स्त्री, (धीयन्ते इति । या + “धापवस्य- ज्यतिभ्यो नः ।” उणां । ३ । ६ । इति नः टाप् च ।) भृष्टयवः । बहुवचनान्तोऽयं शब्दः । इत्यमरः । २ । ९ । ४७ ॥ (यथा, ऋग्वेदे । ३ । ३५ । ३ । [] “ग्रसेतामश्वा वि मुचेह शोणा दिवे दिवेस दृशी- रद्धि धानाः ॥” “त्वन्तु सदृशीरेकरूपान् धाना भृष्टयवान् दिवे दिवे प्रतिदिवसमद्वि भक्षय ।” इति तद्भाष्ये मुयिनः ।) “यवास्तु निस्तुषा भृष्टाः स्मृता धाना इति स्त्रियाम् । धानाः स्युर्दुर्ज्जरा रूक्षास्तृट्प्रदा गुरवश्च ताः ॥ तथा मेदःकफच्छर्द्दिनाशन्यः संप्रकीर्त्तिताः ॥” इति राजनिर्घण्टः ॥ (“धानासंज्ञास्तु मे भक्ष्याः प्रायस्ते लेखनात्मकाः । शुष्कत्वात्तर्षणा चैव विष्टम्बित्वाच्च दुर्ज्जराः ॥ विरूढधानाः शष्कुल्यो मधुक्रोडाः सपिण्डकाः । सूपाः पूपुलिकाद्याश्च गुरवः पैष्टिकाः परम् ॥” “धाना पर्पटपूपाद्यास्तान् बुद्ध्वा निर्द्दिशेत्तथा ॥” इति चरके सूत्रस्थाने २७ अध्यायः ॥)
📄 मूल मुद्रित पृष्ठ (2-792-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।