धुरन्धरः, पुं, धववृक्षः । इति रत्नमाला ॥ (पर्य्यायोऽस्य यथा, -- “धवो धटो नन्दितरुः स्थिरो गौरो धुरन्धरः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥ धुरं धरतीति । धृ + खच् + मुम् ।) रथ- लाङ्गलादिभारवोढा । तत्पर्य्यायः । धुर्व्वहः २ धुर्य्यः ३ धौरेयः ४ धुरीणः ५ । इत्यमरः । २ । ९ । ६५ ॥ यथा, -- “धुरन्धरो धुरीणश्च धौरेयधुर्य्यधुर्व्वहाः । यत्र काम्यरथस्यापि लाङ्गलस्यापि वा धुरम् ॥ वहत्येकधुरीणः स्यात्तथा चैकधुरोऽपि च । स तु सर्व्वधुरीणः स्यात् सर्व्वा वहति यो धुरः ॥” इति शब्दरत्नावली ॥ (आदित्यनृपस्य मन्त्री । स तु कौशलेन राजानं हत्वा स्वययेव राज्यमकरोत् ॥ यथा, राजा- वल्याम् २ परिच्छेदे । “आदित्यस्य तदा मन्त्री अदूरान्वयसम्भवः । धुरन्धराभिधो धीरो बलबुद्धिनिकेतनः ॥ सेनापतीन् वशीचक्रे धनमानप्रदानतः । एकदा स तमादित्यमादित्यसमवर्च्चसम् ॥ एकान्ते नृपमासीनं हत्वा हतमतिस्तदा । तदासनं समारुह्य राज्यं प्राशाद्धुरन्धरः ॥ भूमिवेदमितान्वर्षान्भुक्त्वा भोगाननुत्तमान् । सेनोद्धतं सुतं राज्ये स्थापयित्वा लयं गतः ॥” राक्षसविशेषः । स तु प्रहस्तस्य सचिवविशेषः । यथा, गोः रामायणे । ६ । ३२ । १५ । “एतस्मिन्नन्तरे शूराः प्रहस्तस्य वशानुगाः । धुरन्धरः कुम्भहनुर्महानादः समुन्नदः । एते प्रहस्तसचिवाः सर्व्वे जग्मुर्वनौकसः ॥”) [] धुर्व्वाहकमात्रे, त्रि ॥ (यथा, महाभारते । ३ १८६ । १० । “अनड्वाहं सुव्रतं यो ददाति हलस्य वोढारमनन्तवीर्य्यम् । धुरन्धरं बलवन्तं युवानं प्राप्नोति लोकान् दशधेनुदस्य ॥” श्रेष्ठः । यथा, तत्रैव । १३ । १३७ । ३१ । “दत्त्वा तु सततं तैस्तु कौरवानां धुरन्धर ! । दानयज्ञक्रियायुक्ता बुद्धिर्धर्म्मोपचायिनी ॥”)
📄 मूल मुद्रित पृष्ठ (2-799-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।