🕉️ 22 November 2026, Sunday · 11:31:32 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

धूमकेतु
dhūmaketu
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
धूमकेतु संज्ञा पुं॰ [सं॰]
१. अग्नि (जिसकी पताका धुआँ है) ।
२. केतुग्रह (जिसका चिह्न है धुएँ या भाप के आकार की पुँछ) । पुच्छल तारा । विशेष—दे॰ केतु ।
३. शिव । महादेव ।
४. वह घोड़ा जिसकी पूँछ में भँवरी हो । विशेष—ऐसा बोड़ा बहुत अमंगल समझा जात है ।
५. रावण की सेना का एक राक्षस । उ॰—कुमुख, अकंपन, कुलि- सरद, धूमकेतु अतिकाय ।—तुलसी (शब्द॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
धूम—केतु (˚म-), mfn. having sm˚ as banner or sign (Agni, RV.; the sun, MBh.)
धूम—केतु m. fire, MBh.
a comet or falling star, ib.; Hariv.; Kāv. &c.
the personified descending node, W.
N. of the sun, MBh.
of a Yakṣa, Kathās. w.r. for धूम्र-क्˚.
📄 मूल मुद्रित पृष्ठ (518,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
धूमकेतु पु० धूमः केतुर्लिङ्गमस्य । १ वह्नौ अमरः २ धूमाभ- तारकाभेदे उत्पातविशेषे केतुशब्दे दृश्यम् । “उपप्लवाय लोकानां धूमकेतुरिवोत्थितः” कुमा० । ३ ग्रहभेदे विश्वः केतुशब्दे २२३० पृष्ठादौ दृश्यम् । “केतुना धूमकेतोस्तु नक्षत्राणि त्रयोदश । भरण्यादीनि भिन्नानि नानुयान्ति निशाकरम्” हरिवं० ८० अ० ।
📄 मूल मुद्रित पृष्ठ (3899,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
धूमकेतुः, पुं, (धूमः केतुश्चिह्नं यस्य ।) अग्निः । (यथा, महाभारते । १ । १०३ । १७ । “प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्मताम् ॥”) उत्पातविशेषः । स धूमाभा तारका । इत्यमर- भरतौ ॥ (यथा, कुमारे । २ । ३२ । “भवल्लब्धवरोदीर्णस्तारकाक्षो महासुरः । उपप्लवाय लोकानां धूमकेतुरिवोत्थितः ॥”) ग्रहभेदः । इति विश्वः ॥ * ॥ केतवश्च शिखा- वन्ति ज्योतींषि स्थिराण्युत्पातरूपाणि । तदु- दये कालाशुद्धिर्यथा, -- “धूमकेतौ समुत्पन्ने ग्रहणे चन्द्रसूर्य्ययोः । ग्रहाणां सङ्गरे चैव न कुर्य्यान्मङ्गलक्रियाम् ॥ उल्कापाते च त्रिदिनं धूमे पञ्च दिनानि च । वज्रपाते दिनञ्चैकं वर्ज्जयेत् सर्व्वकर्म्मसु ॥” इति गर्गवचनम् ॥ भोजराजः । “ग्रहे रवीन्दोर्द्धरणीप्रकम्पे केतूद्गमोल्कापतनादिदोषे । व्रते दशाहानि वदन्ति तज्ज्ञा- स्त्रयोदशाहानि वदन्ति केचित् ॥” वज्रकेतूद्गमोत्पाते ग्रहणे चन्द्रसूर्य्ययोः । प्रयाणन्तु त्यजेत् क्षत्त्रः सप्तरात्रमतःपरम् ॥ ब्राह्मणः क्षत्त्रियो वैश्यस्त्यजेत् कर्म्म त्रिरात्रकम् । शूद्रस्त्यक्त्वा चैकरात्रं सर्व्वकर्म्म समाचरेत् ॥” इति मलमासतत्त्वम् ॥ अथ केतूनां संस्थानम् । “शतमेकाधिकमेके सहसमपरे वदन्ति केतूनाम् । बहुरूपमेकमेव प्राह मुनिर्नारदः केतुम् ॥” तथा च पराशरः । “शतमेकोत्तरं केतूनां भवन्ति तेषां षोडश मृत्युनिश्वासजाः । द्वादशादित्य- सम्भवाः । दश दक्षमखविलयने रुद्रक्रोधजाः । सप्त पैतामहाः । पञ्चदश वर्षे वौद्दालिकस्य पुत्त्राः । सप्तदश मरीचिकश्यपललाटजाः । पञ्च च प्राजापतिसहजाः । त्रयो विभाव- सुजाः । धूमोद्भवश्चैकः । चतुर्द्दश मथ्यमाने- ऽमृते सोमेन सह सम्भूताः । एकस्तु ब्रह्म- कोपजः ॥” * ॥ गर्गादयः सहस्रं वदन्ति । तथा च गर्गः । “अमित्योदयचाराणामशुभानाञ्च दर्शनम् । आगन्तॄणां सहस्रं स्याद्ग्रहाणां संनिबोध मे ॥” नारदाख्यो मुनिरेकमेव केतुं बहुरूपं प्राह । यथा, -- “दिव्यान्तरीक्षभौमस्थ एकः केतुः प्रकीर्त्तितः । शुभाशुभफलं लोके ददात्यस्तमयोदये ॥” तत्र धूमकेतुलक्षणम् । “उक्तविपरीतरूपो न शुभकरो धूमकेतुरुत्पन्नः । इन्द्रायुधानुकारी विशेषतो द्वित्रिचूलो वा ॥” “ह्रस्वतनुः प्रसन्न इत्यस्मादुक्तात् यो विपरीतो विशेषतः शक्रचापरूपकेतुरुत्पन्नः स धूमकेतुः [] स च न शुभकरः पापं करोतीत्यर्थः इन्द्रधनुः- सदृशो न शुभकर एव तथा द्बिशिखस्त्रि- शिखश्च विशेषतः पापफलदः । तथा च समय- संहितायाम् । अचिरस्थितोऽतिवृष्टस्त्वस्तमितः स्निग्धमूर्त्तिरुदगुदितः । ह्नस्वतनुः प्रसन्नः केतु- र्लोकस्याभावाय न शुभो विपरीतोः विशेषतः शक्रचापसङ्काशः । द्वित्रिचतुश्चूलो वा दक्षिण- संस्थश्च मृत्युकरः ।” इति भट्टोत्पलकृतवराह- संहिताटीका ॥ (अश्वविशेषः । यथा, नकुल- कृताश्ववैद्यके । ४ । २६ । “पुच्छदेशे यदावर्त्तो वाजिनः संप्रदृश्यते । धूमकेतुरिति ख्यातः स त्याज्यो दूरतो नृपैः ॥” तथाच युक्तिकल्पतरौ । “पृष्ठवंशे यदावर्त्त एकः संपरिलक्ष्यते । धूमकेतुरिति ख्यातः स त्याज्यो दूरतो नृपैः ॥” महादेवः । यथा, महाभारते । १३ । १७ । १०३ । “धन्वन्तरिर्धूमकेतुस्कन्दो वैश्रवणस्तथा ॥”)
📄 मूल मुद्रित पृष्ठ (2-802-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬