🕉️ 22 November 2026, Sunday · 06:17:27 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

नमस्कार
namaskāra
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
नमस्कार संज्ञा पुं॰ [सं॰]
१. झुककर अभिवादन करना । प्रणाम ।
२. एक प्रकार का विष ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
नमस्—कार m. the exclamation ‘namas’, adoration, homage, AV.; Br. &c.
a sort of poison, L.
📄 मूल मुद्रित पृष्ठ (528,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
नमस्कार पु० नमस् + कृ--घञ् । १ स्वापकर्षबोधकव्यापारे कर- शिरःसंयोगादौ २ विषभेदे शब्दच० । नमस्कारे अधिका- रिविशेषादिकं नानास्थानात् प्रदर्श्यते । अभिवादयेदि- त्यनुवृत्तौ शङ्खः “नाप्रयतायाप्रयतश्च” इति शु० त० । “स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ताः” इति स्मृत्यर्थ सारः । “देवं विप्रं गुरुं दृष्ट्वा न नमेद्यस्तु सम्भ्रमात् । स कालसूत्रं व्रजति यावच्चन्द्रदिवाकरौ । ब्राह्मणञ्च गुरुं दृष्ट्वा न नमेद्यो नराधमः । यावज्जीवनपर्य्य- न्तमशुचिर्यवनो भवेत्” इति ब्रह्मवै० जन्मस्य० “देव- तायतनं दृष्ट्वा दृष्ट्वा तु दण्डिनन्तथा । नमस्कारं न कुर्य्याद्यः प्रायश्चित्ती भवेन्नरः । सभायां यज्ञशालायां देवतायतनेषु च । प्रत्येकन्तु नमस्कारो हन्ति पुण्यं पुराकृतम् । उपविश्य नमेत् शूद्रो दीर्घायुर्ब्राह्मणो व- देत् । स शूद्रो नरकं याति ब्राह्मणो यात्यधोगतिम् । दूरस्थं जलमध्यस्थं धावन्तं मदगर्वितम् । क्रोधवन्तं विजानीयात् नमस्कारञ्च वर्जयेत् । पुष्पहस्तो वारिहस्त- स्तैलाभ्यङ्गी जलस्थितः । आशीःकर्त्ता नमस्कर्त्ता उभयोर्नरकं भवेत्” कर्मलोचनम् । “मातुः पितुः कनीयांसं न नमेद्वयसाधिकः । नमस्कुर्य्याद् गुरोः पत्नीं भ्रातृजायां विमातरम्” यमः । “अभिवादयतः [] पूर्वमाशिषं न प्रयच्छति । यद्दुष्कृतं भवेत्तस्य तस्माद्भागं प्रपद्यते । स्वस्तीति ब्राह्मणे ब्रूयात् आयुष्मानिति रा- जनि । वर्द्धतामिति वैश्येषु शूद्रे त्वारोग्यमेव च” म० त० “गुरुपत्नी तु युवती नाभिवाद्येह पादयोः । पूर्णषोडश- वर्षेण गुणदोषौ विजानता” मनुः । “कुर्वीत बन्दनं भूयो भगोवोहमिति ब्रुवन् । विप्रोष्य पादग्रहणमन्वहञ्चाभि- वादनम् । गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् । अभिवा- दनशीलः स्यान्नित्यं वृद्धेषु धर्मतः । असावहम्भो नामेति सम्यक् प्रणतिपूर्वकम् । आयुरारोग्यसिद्ध्यर्थं तन्द्रादि परिवर्जितः । आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभि- वादने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरप्लुतः । यो न वेत्त्यभिवादस्य द्विजः प्रत्यभिवादनम् । नाभि- वाद्यः स विदुषा यथा शूद्रस्तथैव सः । व्यत्यस्तपाणिना कार्यमुप्रसंग्रहणं गुरोः । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः । लौकिकं वैदिकञ्चापि तथाध्यात्मिकमेव वा । आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् । ब्राह्म- णान् कुशलं पृच्छेत् क्षत्रबन्धूननामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु” मनुः । अभिवादनीयाश्च “उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः । मातुलः श्वशुरस्त्राता मातामहपितामहौ । बन्धु ज्येष्ठः पितृव्यश्च पुंस्येते गुरवः स्मृताः । माता माता- मही गुर्वी पितुर्मातुश्च सोदरा । श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियाम् । इत्युक्तो गुरुवर्गोऽयं पितृतो मातृतो द्विजाः । अनुवर्त्तनमेतेषां मनोवाक्- कायकर्मभिः । गुरून् दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृता- ञ्जलिः” इति कूर्मपु० ११ अ० । अधिकं नतिशब्दे दृश्यम् । “अयमेव नमस्कारो भूम्यादिप्रतिपत्तिभिः । प्रणाम इति विज्ञेयः स पूर्वं प्रतिपादितः” कालिकापु० ७० अ० । रात्रौ- तन्निषेधो यथा “रात्रौ नैव नमस्कुर्य्यात्तेनाशीरभिचा- रिका । अतः प्रातः पदं दत्त्वा प्रयोक्तव्ये च ते उभे” महाभारते ।
📄 मूल मुद्रित पृष्ठ (3967-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
नमस्कारः, पुं, (नमः शब्दस्य कारः करणं यत्र ।) विषभेदः । इति शब्दचन्द्रिका ॥ (नमः करः णम् । नमस् + कृ + घञ् ।) नतिः । स च त्रिविधः । कायिकः वाचिकः मानसिकश्च । यथा, -- “कायिको वाग्भवश्चैव मानसस्त्रिविधः स्मृतः । नमस्कारस्तु तत्त्वज्ञैरुत्तमाधममध्यमः ॥” कायिकादिरपि त्रिविधो यथा, -- “प्रसार्य्य पादौ हस्तौ च पतित्वा दण्डवत् क्षितौ । जानुभ्यां धरणीं गत्वा शिरसा स्पृश्य मेदिनीम् ॥ क्रियते यो नमस्कार उत्तमः कायिकस्तु सः ॥ जानुभ्याञ्च क्षितिं स्पृष्ट्वा शिरसा स्पृश्य मेदिनीम् । [] क्रियते यो नमस्कारो मध्यमः कायिकस्तु सः ॥ पुटीकृत्य करौ शीर्षे दीयते यद्यथा तथा । अस्पृष्ट्वा जानुशीर्षाभ्यां क्षितिं सोऽधम उच्यते ॥ या स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः । क्रियते भक्तियुक्तैर्व्वा वाचिकस्तूत्तभः स्मृतः ॥ पौराणिकैर्व्वेदिकैर्व्वा मन्त्रैर्या क्रियते नतिः । मध्यमोऽसौ नमस्कारो भवेद्वाचनिकः सदा ॥ यत्तु मानुषवाक्येन नमनं क्रियते सदा । स वाचिकोऽधमो ज्ञेयो नमस्कारेषु पुत्त्रकौ ॥ इष्टमध्यानिष्टगतैर्म्मनोभिस्त्रिविधं पुनः । नमनं मानसं प्रोक्तसुत्तमाधममध्यमम् ॥ त्रिविधे चं नमस्कारे कायिकश्चोत्तमः स्मृतः । कायिकैस्तु नमस्कारैर्देवास्तुष्यन्ति नित्यशः ॥ अयमेव नमस्कारो दण्डादिप्रतिपत्तिभिः । प्रणाम इति विज्ञेयः स पूर्व्वप्रतिपादितः ॥” इति कालिकापुराणे ७० अध्यायः ॥ * ॥ रात्रौ तन्निषेधो यथा, -- “रात्रौ नैव नमस्कुर्य्यात्तेनाशीरभिचारिका । अतः प्रातःपदं दत्त्वा प्रयोक्तव्ये च ते उभे ॥” इति महाभारतमिति केचित् ॥ नतिकरणम् । तत्तु करशिरःसंयोगादि । स्वाप- कर्षबोधकव्यापारविशेषः । इति मुग्धबोध- टीकायां दुर्गादासः ॥ “सर्व्वे चापि नमस्कुर्य्युः सर्व्वावस्थासु सर्व्वदा ॥” अभिवादयेदित्यनुवृत्तौ शङ्खः । नाप्रयताया- प्रयतश्च । इति शुद्धितत्त्वम् ॥ “स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ताः ॥” इति स्मृत्यर्थसारः ॥ * ॥ “देवं विप्रं गुरुं दृष्ट्वा न नमेद्यस्तु सम्भ्रमात् । स कालसूत्रं व्रजति यावच्चन्द्रदिवाकरौ ॥ ब्राह्मणञ्च गुरुं दृष्ट्वा न नमेद्यो नराधमः । यावज्जीवनपर्य्यन्तमशुचिर्य्यवनो भवेत् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥ “देवतायतनं दृष्ट्वा दृष्ट्वा तु दण्डिनन्तथा । नमस्कारं न कुर्य्याद्यः प्रायश्चित्ती भवेन्नरः ॥ सभायां यज्ञशालायां देवतायतनेषु च । प्रत्येकन्तु नमस्कारो हन्ति पुण्यं पुराकृतम् ॥ उपविश्य नमेत् शूद्रो दीर्घायुर्ब्राह्मणो वदेत् । स शूद्रो नरकं याति ब्राह्मणो यात्यधोगतिम् ॥ दूरस्थं जलमध्यस्थं धावन्तं मदगर्व्वितम् । क्रोधवन्तं विजानीयात् नमस्कारञ्च वर्ज्जयेत् ॥ पुष्पहस्तो वारिहस्तस्तैलाभ्यङ्गो जलस्थितः । आशीःकर्त्ता नमस्कर्त्ता उभयोर्नरकं भवेत् ॥” इति कर्म्मलोचनम् ॥ * ॥ “मातुः पितुः कनीयांसं न नमेद्बयसाधिकः । नमस्कुर्य्याद्गुरोः पत्नीं भ्रातृजायां विमातरम् ॥” यमः । “अभिवादयतः पूर्व्वमाशिषं न प्रयच्छति । यद्दुष्कृतं भवेत्तस्य तस्माद्भागं प्रपद्यते ॥ स्वस्तीति ब्राह्मणे ब्रूयात् आयुष्मानिति राजनि । वर्द्धतामिति वैश्येषु शूद्रे त्वारोग्यमेव च ॥” इति मलमासतत्त्वम् ॥ * ॥ [] “गुरुपत्नीन्तु युवतीं नाभिवाद्येत पादयोः । कुर्व्वीत वन्दनं भूयो भगो वोऽहमिति ब्रुवन् ॥ विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम् । गुरुदारेषु कुर्व्वीत सतां धर्म्ममनुस्मरन् ॥ अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्म्मतः । असावहम्भो नामेति सम्यक् प्रणतिपूर्व्वकम् ॥ आयुरारोग्यसिद्ध्यर्थं तन्द्रादिपरिवर्ज्जितः । आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने ॥ अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्व्वाक्षरः
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "नमस्कार" आता है (17)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें