नर्म्मद त्रि० नर्भ ददाति दा--क ६ त० । १ केलिसचिवे मेदि० । २ पृक्वायां हेमच० । ३ नदीभेदे स्त्री मेदि० । सा च नदी कलिङ्गदेशस्य पश्चाद्देशे स्थिता अमरकण्टकपर्वतसन्निकृष्टा यथाह मत्स्यपु० १८५ अध्यायावधि १९० अ० पर्यन्ते तत्कथा दिङ्मात्रमत्र दर्श्यते । “मार्कण्डेय उवाच नर्मदा सरितां श्रेष्ठा सर्वपापप्रणा- शिनी । तारयेत् सर्वभूतानि स्थावराणि चराणि च । नर्मदायास्तु माहात्म्यं पुराणे यन्मया श्रुतम् । तदे- तद्धि महाराज! तत्सर्वं कथयामि ते । पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती । ग्रामे वा यदि वाऽरण्ये पुण्या सर्वत्र नर्मदा । त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् । सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्म- दम् । कलिङ्गदेशे पश्चार्द्धे पर्वतेऽमरकण्टके । पुण्ये [] च त्रिषु लोकेषु रमणीया मनोरमा । सदेवासुरगन्धर्वा ऋषयश्च तपोधनाः । तपस्तप्त्वा महाराज! सिद्धिञ्च परमाङ्गताः । तत्र स्नात्वा नरो राजन्नियमस्थो जिते- न्द्रियः । उपोष्य रजनीमेकां कुलानां तारयेच्छतम् । जलेश्वरे नरः स्नात्वा पिण्डं दत्त्वा यथाविधि । पितर- स्तस्य तृप्यन्ति यावदाभूतसंप्लवम् । पर्वतस्य समन्तात्तु रुद्रकोटिः प्रतिष्ठिता । स्नात्वा यः कुरुते चार्चां गन्ध- माल्यानुलेपनैः । प्रीतस्तस्य भवेच्छर्वो रुद्रकोटिर्न सं- शयः । पश्चिमे पर्वतस्यान्ते स्वयं देवी महेश्वरः । तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः । पितृकार्यञ्च कुर्वीत विधिवन्नियतेन्द्रियः । तिलोदकेन तत्रैव तर्पयेत् पितृदेवताः । आसप्तमं कुलं तस्य स्वर्गे मोदेत पाण्डव! । षष्टिर्वर्षसहस्राणि स्वर्गलोके महीयते । अप्सरोगण- संकीर्णे सिद्धचारणसेविते । दिव्यगन्धानुलिप्तश्च दिव्या- लङ्कारभूषितः । ततः स्वर्गात्परिभ्रष्टो जायते विपुले कुले । धनवान् दानशीलश्च धार्मिकश्चैव जायते । पुनः णरति तत्तीर्थं गमनं तत्र रोचते । कुलानि तारयेत् सप्त रुद्रलोकं स गच्छति । योजनानां शतं साग्रं श्रू- यते सरिदुत्तमा । विस्तारेख तु राजेन्द्र! योजनद्वय- मायता । षष्टिस्तीर्घसहस्राणि षधिः कोञ्चस्तथैव च । सर्वं तस्य समन्तात्तु तिष्ठतेऽमरकण्टके” ।
📄 मूल मुद्रित पृष्ठ (3980-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।