🕉️ 22 November 2026, Sunday · 06:09:41 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

निऋति
niṛti
🟠 शब्दसागर🟢 वाचस्पत्यम्
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
निऋति संज्ञा स्त्री॰ [सं॰] नैऋत्य या दक्षिणपश्चिम कोण की अधिष्ठातृ देवी ।
२. अलक्ष्मी । लक्ष्मी की बड़ी बहन दरिद्रा ।
३. मृत्यु । नाश ।
४. पृथ्वी का तत्व ।
५. विपत्ति [को॰] ।
निऋति १ संज्ञा पुं॰
१. नैऋत्य कोण के अधिपति दिकपाल ।
२. राक्षास ।
३. मरण ।
४. आठ वसु में से एक वसु ।
५. एक रुद्र । रुद्र का एक रूप ।
६. मूल नामक नक्षत्र [को॰] ।
निऋति २ संज्ञा स्त्री॰ [सं॰] दे॰ निऋति ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
निऋ(रृ)ति पु० नियता ऋतिर्घृणा यत्र प्रा० व० रमध्यो वा । १ दक्षिणपश्चिमविदिक्पतौ । “मृगव्याधश्च सर्पश्च निरृतिश्च महायशाः” भा० आ० ६६ अ० । २ अलक्ष्म्याम् स्त्री ३ निरु- पद्रवे त्रि० । ४ अधर्मस्य भार्य्यायां स्त्री “अधर्सस्तत्र संजातः सर्वशुभविनाशकः । तस्यापि निरृतिर्भार्य्या नैरृता येन राक्षसाः” भा० आ० ६६ अ० । ५ अधर्मस्य कन्यायाञ्च स्त्री “हिंसा भार्य्या त्वधर्मस्य तस्यां जज्ञे तथाऽनृतम् । कम्या च निरृतिस्तस्यां सुतौ द्वौ नरकं भयम्” मार्क- ण्डेयपु० ५ अ० । ६ मृत्युभार्य्यायाम् । “निरृतिश्च तथा चान्या मृत्योर्भार्य्याऽभवनुमुने!” तत्रैवाध्याये । अलक्ष्मीश्च लक्ष्म्या ज्येष्ठा भगिनी अश्वत्थशब्दे ५०६ पृ० दृश्यम् । ७ मूलानक्षत्रे तस्य तद्देवताकत्वात् तथात्वम् । निरृतिर्लोकपालश्च पिङ्गाक्षव्याधः कार्पटिकादीनां रक्षर्थं यतमानस्ताराक्षण तत्पितृव्येन धातितः मरणकाले तेषामाधिपत्यं लभेयमितीच्छया प्राणविमोच- नात् तदीशतामाप तत्कथा काशीख० १२ अ० यथा “असू- दयिष्यमेतांस्तदभविष्यं यदीश्वरः । अभिलव्योन्नतिं प्राणानत्याक्षीत् स परार्थतः । या मतिस्त्वन्तकाले स्याद्गतिस्तदनुरूपतः । दिगीशत्वमतः प्राप्तो नैरृत्यां नैरृतेश्वरः” इति । एतल्लोकप्राप्तिकारणादिकं तत्रैव यथा “दिक्पतेनैरृतस्यासौ पुण्यापुण्यजनोषिता । राक्षसा निवसन्त्यस्यामपरद्रोहिणः सदा । जातिमात्रेण रक्षांसि वृत्तैः पुण्यजना इमे । अत्यक्तश्रुतिवर्त्मानो जाता वर्णा वरेष्यपि । नाद्रियन्तेऽन्नपानानामस्मृत्युक्तं कदाचन । परदारपरद्रव्यपरद्रोहपराङ्मुखाः । जाता जातौ निकुष्टायामपि पुण्यानुसारिणः । द्विजातिभक्त्युत्पन्ना- न्नैरात्मानं पोषयन्ति ये । सदा सङ्कुचिताङ्गाश्च द्विजस- म्भाषणादिशु । आहूता हृष्टवदना वदन्ति द्विजसन्निधौ । जय जीव भगोनाथ स्वामिन्निति हि वादिनः । तीर्थ स्नानपरानित्यं नित्यदेवपरायणाः । द्विजेषु नित्यं प्रणताः स्वनामाख्यानपूर्वकम् । दमदानदयाक्षान्तिशौ- चेन्द्रियविनिग्रहाः । अस्तेयसत्याऽहिंसाश्च सर्वेषां धर्महेतवः । नवस्वेषु सदोद्युक्ता ये जातायत्र कुत्रचित् । सर्वभोगसमृद्धास्ते वसन्त्यत्र पुरोत्तमे । म्लेच्छा अपि मुतीर्थेषु ये मृता नात्मघातकाः । विहाय काशीं निर्वाण विश्राणान्तेऽत्र भोमिनः । अन्धन्तमो विशेयुस्ते ये चैवा- त्यहनो जनाः । भुक्त्वा निरयसाहस्रं ते च स्युर्ग्राम- श्रूकराः । आत्मथातो न कर्त्तव्यस्तस्मात् क्वापि विप- [] श्चिता । इहापि च परत्रापि न शुभान्यात्मधातिनाम् । यथेष्टमरणं केचिदाहुस्तत्त्वावबोधकाः । प्रयागे सर्वती- र्थानां राज्ञि सर्वाभिलाषदे । अन्त्यजा अपि ये केचि- द्दयाधर्मानुसारिणः । परोपकृतिनिष्ठास्ते वसन्त्यत्र तु सत्तमाः । अस्य स्वरूपं वक्ष्यावो दिक्पतेः क्षणतः शृणु । मध्येविन्धाटवि पुरा पक्वणस्य जनाग्रणीः । पल्लीपतिरभूदुग्रः पिङ्गाक्ष इति विश्रुतः । निर्विन्ध्याया- स्तटे शूरः क्रूरकर्मपराङ्मुखः” ।
📄 मूल मुद्रित पृष्ठ (4090-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔁 जिनके अर्थ में "निऋति" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬