🕉️ 19 November 2026, Thursday · 07:42:46 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

निंब
niṃba
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
निंब संज्ञा स्त्री॰ [सं॰ निम्ब]
१. नोम का पेड़ । यौ॰— पंचनिंब । महानिंब ।
२. एक वृक्ष । परिभद्र (को॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
निम्ब m. the Nimb or Neemb tree, Azadirachta Indica (its fruit is bitter and its leaves are chewed at funeral ceremonies), Gobh.; Var.; Suśr.; Kāv. (also -क).
📄 मूल मुद्रित पृष्ठ (551,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
निंबः A tree with bitter fruits; आम्रं छित्त्वा कुठारेण निंबं परिचरेत्तु यः । यश्चैनं पयसा सिंचेन्नैवास्य मधुरो भवेत् ॥ Rām. --Comp. --तरुः {1} the Mandāra tree. {2} the Nimba tree.
📄 मूल मुद्रित पृष्ठ (0625-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
निम्ब पु० निवि--सेचने अच् वबयोरैक्यात् मः । (निम्) ख्याते वृक्षे अमरः “निम्बः शीतो लघुर्ग्राही कटुपाकोऽग्नि- वातहृत् । अहृद्यः श्रमतृट् कासज्वरारुचिकृमि प्रणुत् । निम्बपत्रं स्मृतं नेत्र्यं कृमिपित्तविषप्र- णुत् । वातलं कटुपाकञ्च सर्वारोचककुष्ठनुत् । निम्बं फलं रसे तिक्तं पाके तु कटु भेदनम् । स्निग्धं लघूष्णं कुष्ठघ्नं गुल्मार्शःकृमिमेहनुत्” । निम्बशाकगुणाः “निम्बस्य कोमलदलानि सुयत्रभृष्टान्याज्ये क्षिपेत्तदनु सैन्धवतक्रयुक्तान् । शालीयतण्डु फणान् सह रामठेन चाघारितान् ददति रोचनमेव लेहात्” । “करञ्जनिम्ब- जफलं कृमिकुष्ठप्रमेहजित् । निम्बतैलन्तु कुष्ठघ्नं तिक्तं कृमिहरम् परमिति” राजवल्लभः । “मसूरं निम्बपत्रञ्च योऽत्ति मेषगते रवौ । अतिरोषान्वितस्तस्य तक्षकः किं करिष्यति” ति० त० । षष्ठ्यां तिथौ तद्भक्षणनिषेधो यथा “कलङ्की जायते विल्वे तिर्यग्योनिश्च निम्बके” ति० त० । तिथिभेदे वर्ज्योक्तौ । निम्बक इत्यत्र स्वार्थे क ।
📄 मूल मुद्रित पृष्ठ (4076,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
निम्बः, पुं, (निम्बति स्वास्थ्यं ददातीति । निम्ब + अच् ।) वृक्षविशेषः । निम् इति भाषा । तत्- पर्य्यायः । अरिष्टः २ सर्व्वतोभद्रः ३ हिङ्गु- निर्य्यासः ४ मालकः ५ पिचुमर्द्दः ६ । इत्य- मरः । २ । ४ । ६२ ॥ अर्कपादपः ७ । इति हेमचन्द्रः ॥ कैटर्य्यः ८ वरत्वचः ९ छर्द्दिघ्नः १० । इति रत्न- माला ॥ प्रभद्रः ११ पारिभद्रकः १२ काक- फलः १३ कीरेष्टः १४ नेता १५ सुमनाः १६ विशीर्णपर्णः १७ यवनेष्टः १८ पीतसारकः १९ शीतः २० । इति राजनिर्घण्टः ॥ पिचुमन्दः २१ तिक्तकः २२ । इति भावप्रकाशः ॥ कोकटः २३ शूकमालकः २४ । इति जटाधरः ॥ अस्य गुणाः । शीतत्वम् । तिक्तत्वम् । कफव्रणक्रिमि- वमिशोफशान्तिकारित्वम् । बलासबहुविधपित्त- दोषहृदयविदाहनाशित्वञ्च । इति राज- निर्घण्टः ॥ लघुत्वम् । भ्राहित्वम् । कटुपाकि- त्वम् । अग्निवातकारित्वम् । अहृद्यत्वम् । भ्रम- तृट्कासज्वरारुचिच्छर्द्दिकुष्ठहृल्लासमेहनाशि- त्वञ्च । तत्पत्रगुणाः । नेत्रहितकारित्वम् । कृमिपित्तविषसर्व्वारोचककुष्ठनाशित्वम् । वात- लत्वम् । कटुपाकित्वञ्च । तत्फलगुणाः । रसे तिक्तत्वम् । पाके कटुत्वम् । भेदनत्वम् । स्निग्ध- त्वम् । लघुत्वम् । उष्णत्वम् । कुष्ठगुल्मार्शःकृमि- मेहनाशित्वञ्च । [] “निम्बः शीतो लघुर्ग्राही कटुपाकोऽग्निवातनुत् । अहृद्यः श्रमतृट्कासज्वरारुचिकृमिप्रणुत् ॥ व्रणपित्तकफच्छर्द्दिकुष्ठहृल्लासमेहनुत् । निम्बपत्रं स्मृतं नेत्र्यं कृमिपित्तविषप्रणुत् ॥ वातलं कटुपाकञ्च सर्व्वारोचककुष्ठनुत् । नैम्बं फलं रसे तिक्तं पाके तु कटु भेदनम् ॥ स्निग्धं लघूष्णं कुष्टघ्नं गुल्मार्शःकृमिमेहनुत् ॥” इति भावप्रकाशः ॥ * ॥ तत्तैलगुणाः । नात्युष्णत्वम् । कृमिकुष्ठकफ- त्वग्दोषव्रणकण्डूतिशोफहारित्वम् । पित्तलत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ “निम्बं पित्तकफच्छर्द्दिव्रणहृल्लासकुष्ठनुत् ।” निम्बपत्रं इति वा पाठः ॥ * ॥ “करञ्जनिम्बजफलं कृमिकुष्ठप्रमेहजित् । निम्बतैलन्तु कुष्ठघ्नं तिक्तं कृमिहरं परम् ॥” इति राजवल्लभः ॥ अथ महानिम्बः । वकाईन इति हिन्दीभाषा ॥ तत्पर्य्यायगुणाः । यथा, भावप्रकाशे । “महानिम्बः स्मृतो द्रेका रम्यको विषमुष्टिकः । केशमुष्टिर्निम्बरकः कामुकः क्षीर इत्यपि ॥ महानिम्बो हिमो रूक्षस्तिक्तो ग्राही कषायकः । कफपित्तकृमिच्छर्द्दिकुष्ठहृल्लासरक्तजित् ॥ प्रमेहश्वासगुल्मार्शोमूषिकाविषनाशनः ॥” (षष्ठ्यां तिथौ तद्भक्षणे तिर्य्यक्योनित्वं स्यात् । इति तिथितत्त्वम् ॥)
📄 मूल मुद्रित पृष्ठ (2-885-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "निम्ब" आता है (5)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें