निष्क, क ङ माने । इति कविकल्पद्रुमः ॥ (चुरां- आत्मं-सकं-सेट् ।) मूर्द्धन्यषमध्यः । क ङ, निष्कयते स्वर्णं बणिक् । इति दुर्गादासः ॥
निष्कः, पुं क्ली, (निश्चयेन कायति शोभते इति । निस् + कै + आतश्चेति कः ।) चत्वारः सुवर्णाः । चारि मोहर इति भाषा ॥ यथा, मनुः । ८ । १३७ । “धरणानि दश ज्ञेयः शतमानस्तु राजतः । चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥” साष्टशतसुवर्णः । हेम । उरोभूषणम् । (यथा, रामायणे । १ । ६ । ११ । “नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् ॥”) पलम् । दीनारः । इत्यमरः । ३ । ३ । १४ ॥ अस्य टीका यथा । “शास्त्रीयषोडशमाषकपरिमितं स्वर्णं सुवर्णं तेषां सुवर्णानां अष्टाधिकशतम् । हेम स्वर्णमात्रम् । उरोभूषणं वक्षोऽलङ्कारः । पलं शास्त्रीयमानविशेषः । उरोभूषणं पलञ्च हेम्न एवेति केचित् । दीनारः सम्यग्व्यवहारार्थं मानवस्तु एषु निष्कः । केचित्तु दीनार इति पल इत्यस्य विशेषणम् । दीनारे पले लौकिक- पले न तु शास्त्रीये इत्याहुः ॥ स्मार्त्तास्तु द्वात्रिंशद्रक्तिकापरिमितं काञ्चनं दीनारः । तथाहि । ‘दीनारो रोपकैरष्टाविंशत्या परिकीर्त्तितः । सुवर्णंसप्ततितमो भागो रोपक उच्यते ॥’ इति विष्णुगुप्तः ॥ सुवर्णोऽशीतिरक्तिकापरिमितं काञ्चनं तस्य सप्ततितमो भागः सप्तमांशाधिकहेमरक्तिकायां रोपकः तदष्टाविंशत्या द्बात्रिंशद्रक्तिकापरिमितं हेम दीनार इति पर्य्यवस्यतीत्याहुः ।” इति भरतः ॥ * ॥ स्वर्णकर्षः । स्वर्णपलम् । इति हेमचन्द्रः ॥ कण्ठभूषा । इति जटाधरः ॥ माषकचतुष्टयम् । इति वैद्यकपरिभाषा ॥ (यथा, “स्याच्चतुर्म्माषकैः शाणः स निष्कष्टङ्क एव च ॥” इति पूर्व्वखण्डे प्रथमेऽध्याये शार्ङ्गधरेणोक्तम् ॥) [] षोडशद्रम्यः । षोल काहन इति भाषा ॥ (यथा, लीलावत्याम् । २ । “वराटकानां दशकद्बयं यत् सा काकिनीं ताश्च पणश्चतस्रः । ते षोडशद्रम्य इहावगम्यो द्रम्यैस्तथा षोडशभिश्च निष्कः ॥”)
📄 मूल मुद्रित पृष्ठ (2-903-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।