🕉️ 19 November 2026, Thursday · 10:02:53 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

पंचजन
paṃcajana
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
पुरुष के नाम (2.6.1) पुमान् · पुरुष · पूरुष · नर
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
पंचजन संज्ञा पुं॰ [सं॰ पञ्चजन]
१. पाँच वा पाँच प्रकार के जनों का समूह ।
२. गंधर्व, पितर, देव, असुर और राक्षस ।
३. ब्राह्मण, क्षत्रिय, वैश्य, शूद्र और निषाद ।
४. मनुष्य । जन- समुदाय ।
५. पुरुष ।
६. मनुष्य जीव और शरीर से संबंध रखनेवाले प्राण आदि ।
७. एक प्रजापति का नाम ।
८. एक असुर जो पाताल में रहता था । विशेष—यह कृष्णचंद्र के गुरु संदीपनाचार्य के पुत्र को चुरा ले गया था । कृष्णचंद्र इसे मारकर गुरु के पुत्र को छुड़ा लाए थे । इसी असुर की हड्डी से 'पाँचजन्य' शंख बना था जिसे भगवान् कृष्णचंद्र बजाया करते थे ।
९. राजा सगर के पुत्र का नाम ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पञ्च—जन m. (pl.) the 5 classes of beings (viz. gods, men, Gandharvas and Apsaras, serpents, and Pitṛs), TS.; ŚBr. &c. man, mankind, Hcar. (˚नेन्द्र m. prince, king, Rājat.)
(ibc.) the 5 elements, MBh.
N. of a demon slain by Kṛṣṇa, MBh.; R. &c. (cf. पाञ्चजन्य)
of a son of Saṃhrāda by Kṛti, BhP.
of a Prajāpati, ib.
of a son of Sagara by Keśinī, Hariv.
of a son of Sṛñjaya and father of Soma-datta, ib.
📄 मूल मुद्रित पृष्ठ (576,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
पञ्चजन पु० पञ्चभिः भूतैर्जन्यते जन--घञ्, न वृद्धिः । १ मनुष्ये अमरः । २ मनुष्यसम्बन्धिनि प्राणादौ ३ मनुष्यतुल्ये देवादौ ४ मनुष्यभेदे ब्राह्मणादौ च शा० सू० भाष्यम् तथाहि “यस्मिन् पञ्च पञ्च जना अ काशश्च प्रतिष्ठितः” तद्धृतवेदमन्त्रे “प्रञ्च पञ्च शब्दशब्देन पञ्चविंशतितत्त्वान्युच्यन्ते” इति सांख्यमतनिराकरणेन पञ्चजनशब्दस्य प्राणादिपरत्वं समर्थितं दिङ्मात्रमत्रोच्यते “कथं तर्हि पञ्च पञ्चजना इति, उच्यते, “दिक्सङ्ख्ये संज्ञायामिति” पा० विशेषस्मरणात् मंज्ञायामेव पञ्चशब्दस्य जनशब्देन समासः, ततश्च रूढत्वाभिप्रायेणैव केचित् पञ्चजना नाम विवक्ष्यन्ते, न साङ्ख्यतत्त्वाभिप्रायेण, ते कतीत्यस्यामाकाङ्क्षायां पुनः पञ्चेति प्रयुज्यते, पञ्चजना नाम केचित्, ते च पञ्चेत्यर्थः सप्तर्षयः सप्तेति यथा । के पुनस्ते पञ्चजना नामेति तदुच्यते । “प्राणादयो वाक्यशेषात्” शा० सू० “यस्मिन् पञ्च पञ्चजना इत्यत उत्तर- स्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणाय प्राणादयः पञ्च निर्दिष्टाः “प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्चोत्रस्य श्रोत्रमन्नस्यान्नं षनसो ये मनो विदुः” इत्यत्र वाक्यशेषगताः सन्निधानात् पन्चजना विवक्ष्यन्ते । कथं पुनः प्राणादिषु पञ्चजन- शब्दप्रयोगः तत्त्वेषु वा कथं जनशब्दप्रयोगः समाने [] तु प्रसिद्ध्यतिक्रमे वाक्यशेषवशात् प्राणादय एव ग्रही- तव्या भवन्ति जनसम्बन्धाच्च प्राणादयो जनशब्दभाजो भवन्ति । जनवचनश्च पुरुषशब्दः प्राणेषु प्रयुक्तः, “ते वा एते पञ्च ब्रह्म पुरुषाः” इति, अत्र “प्राणो ह पिता प्राणो ह माता” इत्यादि च ब्राह्मणम् । समासबलाच्च समुदायस्य रूढत्वमविरुद्धम् । कथं पुनरसति प्रथम- प्रयोगे रूढिः शक्याश्रयितुं शक्या, उद्भिदादिवदित्याह । प्रसिद्धार्यसन्निधानेन ह्यप्रसिद्धार्थः शब्दः प्रयुज्यमानः समभिव्याहारात् तद्विषयो नियम्यते यथोद्भिदा यजेतु यूपं चिनत्ति, वेदिं करोतीति । तथाऽयमपि पञ्चजन- शब्दः समासान्वाख्यानादवगतसंज्ञाभावः सेज्ञ्याकाङ्क्षी वाक्यशेषसमभिव्याहृतेषु प्राणादिषु वर्त्तिष्यते । कैश्चित्तु देवाः पितरो गन्धर्वा असुरा रक्षांसि च पञ्च पञ्च जना व्याख्याताः । अन्यैश्चत्वारो वर्णा निषादपञ्चमाः परि- गृहीताः” । तत्परिग्रहेऽपीह न कश्चिद्विरोधः । आचार्यस्तु न पञ्चविंशतेस्तत्त्वानामिह प्रतीतिरस्तीत्येवं- परतया प्राणादयो वाक्यशेषादिति जगाद” । २ दैत्यभेदे च यस्यास्थ्ना कृष्णस्य पाञ्चजन्यः शङ्घोजातः । पाञ्चजन्यशब्दे दृश्यम् । ३ सृञ्जयनृपपुत्रे हरिवं० ३२ अ० अंशुमतः पितरि मगधनृपस्य ४ पुत्रभेदे १५० अ० । ५ प्रजापतिभेदे भाग० ६ । ४ । ४६ विश्वावसुदुहितरि भरतस्य ६ पत्न्यां स्त्री ङीप् । भाग० ५ । ७ । १
📄 मूल मुद्रित पृष्ठ (4185-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
पञ्चजनः, पुं, (पञ्चभिर्भूतैर्जन्यतेऽसौ । पञ्च + जन् + कर्म्मणि घञ् । “जनिवध्योश्च” । ७ । ३ । ३५ । इति न वृद्धिः ।) पुरुषः । इत्यमरः । २ । ६ । १ ॥ (यथा, राजतरङ्गिण्याम् । ३ । ३५५ । “सद्भावश्र्यादिका देव्यस्तेन श्रीशब्दलाञ्छिताः । पञ्च पञ्चजनेन्द्रेण पुरे तस्मिन् निवेशिताः ॥”) दैत्यविशेषः । स च संह्रादस्य कृतौ पत्न्यां जातः । (यथा, श्रीभागवते । ६ । १८ । १४ । “संह्रादस्य कृतिर्भार्य्याऽसूत पञ्चजनं ततः ॥” अपरो दैत्यभेदः । श्रीकृष्णः एनं हत्वा सान्दी- पनिमुनये अस्य मृतं पुत्त्रं गुरुदक्षिणास्वरूपं ददौ । यथा, भागवते । ३ । ३ । २ । “सान्दीपनेः सकृत् प्रोक्तं ब्रह्माधीत्य सविस्तरम् । तस्मै प्रादात् वरं पुत्त्रं मृतं पञ्चजनोदरात् ॥”) अस्यास्थ्ना पाञ्चजन्यनामा शङ्खो जातः । सच श्रीकृष्णस्य । यथा, -- “पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ॥” इत्यादि श्रीभगवद्गीतायाम् । १ । १५ ॥ (प्रजा- पतिः । यथा, भागवते । ६ । ४ । ५१ । “एषा पञ्चजनस्याङ्ग ! दुहिता वै प्रजापतेः । असिक्नी नाम पत्नीत्वे प्रजेश ! प्रतिगृह्यताम् ॥” सगरराजपुत्त्रः । यथा, हरिवंशे । १५ । ६ । “केशिन्यसूत सगरादसमञ्जसमात्मजम् । राजा पञ्चजनो नाम बभूव स महाबलः ॥” गन्धर्ब्बाः पितरो देवा असुरा रक्षांसि पञ्चजन- पदवाच्यानि भवन्ति । इति चिन्तामणिः ॥)
📄 मूल मुद्रित पृष्ठ (3-007-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें