🕉️ 19 November 2026, Thursday · 10:23:03 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

पूरुष
pūruṣa
🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
पुरुष के नाम (2.6.1) पुमान् · पंचजन · पुरुष · नर
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पूरुष m. (mc.) = पुरुष, RV.; &c.
📄 मूल मुद्रित पृष्ठ (643,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पूरुषः = पुरुष q. v.; Bv. 1. 75.
📄 मूल मुद्रित पृष्ठ (0716-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
पूरुषः, पुं, (पुरति अग्रे गच्छतीति । पुर + “पुरः कुषन् ।” उणा० ४ । ७४ । इति कुषन् । “अन्येषा- मपि दृश्यते ।” ६ । ३ । १३७ । इति निपातनात् दीर्घः ।) पुरुषः । पुमान् । इत्यमरः । २ । ६ । १ ॥ अथ पूरुषलक्षणम् । “पञ्चदीर्घं चतुर्ह्रस्वं पञ्चसूक्ष्मं षडुन्नतम् । सप्तरक्तं त्रिगम्भीरं त्रिविशालं प्रशस्यते ॥ बाहुनेत्रद्वयं कुक्षिद्वौ तु नासा तथैव च । स्तनयोरन्तरञ्चैव पञ्चदीर्घं प्रशस्यते ॥ ग्रीवाथ कर्णौ पृष्ठञ्च ह्रस्वे जङ्घे सुपूजिते । चत्वारि यस्य ह्रस्वानि पूजां प्राप्नोति नित्यशः ॥ सूक्ष्माण्यङ्गुलिपर्व्वाणि दन्तकेशनखत्वचम् । पञ्च सूक्ष्माणि येषां हि ते नरा दीर्घजीविनः ॥ नासा नेत्रञ्च दन्ताश्च ललाटञ्च शिरस्तथा । हृदयञ्चैव विज्ञेयमुन्नतं षट् प्रशस्यते ॥ पाणिपादतलौ रक्तौ नेत्रान्तरनखानि च । तालुकोऽधरजिह्वा च सप्तरक्तं प्रशस्यते ॥ स्वरो बुद्धिश्च नाभिश्च त्रिगम्भीरमुदाहृतम् । उरः शिरो ललाटञ्च त्रिविस्तीर्णं प्रशस्यते ॥ * ॥ कटिर्विशाला बहुपुत्त्रभागी विशालहस्तो नरपुङ्गवः स्यात् । उरो विशालं धनधान्यभागी शिरो विशालं नरपूजितः स्यात् ॥ [] न श्रीस्त्यजति रक्ताक्षं नार्थः कनकपिङ्गलम् । दीर्घबाहुं न चैश्वर्य्यं न मांसोपचितांसकम् ॥ कदाचिद्दन्तुरो मूर्खः कदाचिल्लोमशः सुखी । कदाचित्तुन्दिलो दुःखी कदाचिच्चञ्चला सती ॥ नेत्रस्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम् । हस्तस्नेहेन चैश्वर्य्यं पादस्नेहेन वाहनम् ॥ अकर्म्मकठिनौ हस्तौ पादावध्वनि कोमलौ । यस्य पाणितलौ रक्तौ तस्य राज्यं विनिर्द्दिशेत् ॥ दीर्घलिङ्गेन दारिद्र्यं स्थूललिङ्गेन निर्धनः । कृशलिङ्गेन सौभाग्यं ह्रस्वलिङ्गेन भूपतिः ॥ रेखाभिर्ब्बहुभिर्दुःखं स्वल्पाभिर्धनहीनता । रक्ताभिः श्रियमाप्नोति कृष्णाभिर्लोकपूजितः ॥ अङ्गुष्ठोदरमध्ये तु यवो यस्य विराजितः । उन्नतं भोजनं तस्य शतं जीवति मानवः ॥ अङ्कुशं कुलिशं छत्रं यस्य पाणितले भवेत् । ऐश्वर्य्यञ्च विनिर्द्दिष्टमशीत्यायुर्भवेद्घ्रुवम् ॥ धनुर्यस्य भवेत् पाणौ पङ्कजं वाथ तोरणम् । तस्यैश्वर्य्यञ्च राज्यञ्च अशीत्यायुर्भवेद्ध्रुवम् ॥ कनिष्ठातर्ज्जनीं यावत् रेखा भवति चाक्षता । विंशत्यब्दाधिकशतं नरा जीवन्त्यनामयाः ॥ कनिष्ठामध्यमां यावत् रेखा भवति चाक्षता । शताब्दं वाथ वाशीतिर्नरो जीवेन्न संशयः ॥ कनिष्ठानामिकायाञ्चेत् रेखा भवति चाक्षता । षष्टिं पञ्चाशदब्दं वा नरा जीवन्त्यसंशयम् ॥ रेखया भिद्यते रेखा स्वल्पायुश्च भवेन्नरः । कनिष्ठायां स्थिता रेखा संख्या यावतिका स्मृता । तावती पुरुषाणान्तु नारी भवति निश्चितम् ॥ करमध्यगता रेखा ध्रुवा ऊर्द्ध्वम्भवेद्यदि । नृपो वा नृपतुल्यो वा चिरं ख्यातोऽर्थवान् भवेत् ॥ मत्स्यपुच्छप्रकीर्णेन विद्यावित्तसमन्वितः । पितामहस्य वा किञ्चित् धनञ्च लभते ध्रुवम् ॥ मध्यमायां यदि यवा दृश्यन्तेऽत्यन्तशोभनाः । तदान्यसञ्चितं वित्तं प्राप्नोत्यङ्गुष्ठके यवे ॥ यस्याथ चक्रमङ्गुष्ठे यवादूर्द्ध्वञ्च दृश्यते । तदा वै पामरादीनामज्जितं धनमाप्नुयात् ॥ तर्ज्जन्यामथ चक्रञ्च मित्रद्वारा धनम्भवेत् । तेनैव विपरीतन्तु व्ययो भवति निश्चितम् ॥ मध्यमायां स्थिते चक्रे देवद्वारा धनं लभेत् । तेनैव विपरीतन्तु व्ययो भवति निश्चितम् ॥ अनामायां भवेत् चक्रं सर्व्वद्बारा भवेद्धनम् । तेनैव विपरीतन्तु व्ययो भवति निश्चितम् ॥ कनिष्ठायां भवेच्चक्रं बाणिज्येन धनं भवेत् । तेनैव विपरीतन्तु व्ययो भवति निश्चितम् ॥ * ॥ ललाटे दृश्यते यस्य चक्ररेखाचतुष्टयम् । अशीत्यायुः समाप्नोति पञ्चरेखाः शतं समाः ॥ यस्योन्नतं ललाटञ्च ताम्रकर्णञ्च दृश्यते । रेखाहीनश्च कक्षश्च स चोन्मत्तो महीं भ्रमेत् ॥ यस्य जिह्वा भवेद्दीर्घा
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें