पच, इ क ततौ । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् । इदित् ।) ततिरिह विस्तार- वचनम् । इ क, पञ्चयति धीरो ग्रन्थार्थम् । इति दुर्गादासः ॥ (यथा, गीतगोविन्दे । १० । १३ । “व्यथयति वृथा मौनं तन्वि ! प्रपञ्चय पञ्चमम् । तरुणि ! मधुरालापैस्तापं विनोदय दृष्टिभिः ॥”)
पच, इ ङ व्यक्तीकारे । (भ्वां-आत्मं-सकं-सेट् ।) इ, कर्म्मणि पञ्च्यते । ङ, पञ्चते स्वगुणं भिक्षुकः । इति दुर्गादासः ॥
पच, ङ औ व्यक्तीकारे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-सकं-अनिट् ।) औ, पक्ता । ङ, पचते स्वगुणं भिक्षुकः । इति दुर्गा- दासः ॥
पच, डु ञ औ ष पाके । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-द्विकं-अनिट् ।) पाको विक्लित्यनु- कूलव्यापारः । डु, पक्त्रिमम् । ञ, पचति पचते तण्डुलानोदनं लोकः । औ, पक्ता । ष, पचा । इति दुर्गादासः ॥
पचः, त्रि, पचति यः । (पच् + “नन्दिग्रहिपत्ता- दिभ्यो ल्युणिन्यचः ।” ३ । १ । १३४ । इति अच् ।) [] पाककर्त्ता । इति व्याकरणम् ॥ स्वार्थे कनि पच- कश्च ॥
📄 मूल मुद्रित पृष्ठ (3-005-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।